रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 431, कुल 558 में से
संदर्भ में पढ़ें४०८ रसार्णवे गुञ्जैकामात्रां देवेशि ज्ञात्वा चाग्निबलं निजम्¹। घृतेन मधुनाच्छाद्य² ताम्बूलं कामिनीर्भजेत्³ ॥ ४६ ॥ एको हि दोषः सूक्ष्मोऽयं भक्षिते भस्मसूतके⁴। त्रिसप्ताहं वरारोहे कामान्धो जायते नरः⁵ ॥ ४७ ॥ कामिनीनां सङ्घञ्च तु क्षोभयेद्दिवसान्तरे⁶। नारीसङ्गाद्⁷ वरारोहे देहे क्राम्यति⁸ सूतकः ॥ ४८ ॥ नारीसङ्गे⁹ वरारोहे अजीर्णं तस्य जायते ॥ ४८ ॥ मैथुनाच्चलिते शुक्रे¹⁰ त्रिसप्ताहावधि¹¹ क्रमात्। जायते प्राणसन्देह¹²स्तस्मात्समैथुनं त्यजेत्¹³ ॥ ५० ॥ युवत्या जल्पनं कार्यं युवत्या चाङ्गमर्दनम्¹⁴। यस्याः¹⁵ स्पर्शनमात्रेण रसः क्राम्यति¹⁶ विग्रहे ॥ ५१ ॥ यथा कामोऽप्युद्धयति¹⁷ स्त्रीरूपनिरीक्षणात्।
(1) D has ज्ञात्वापिबलं पिबेत्, which is incorrect. (2) D reads छाद्या, which is incorrect. (3) D reads भवेत्, which is not correct. (4) भक्षते भस्मसूतकम्, a variant in D. (5) D reads पुनः, which is not accurate. (6) K reads भक्षयेद्दिवसान्तरे. (7) D reads नारीसंग, which is incorrect. (8) K reads क्रामति. (9) D reads नारी- संगे, which is incorrect. (10) D reads चलिते युक्तः. (11) धीसप्ताहा- वतः, an incorrect variant in D. K has धिसप्ताहाद्यतः. (12) D reads erroneously जायते प्राणसन्देहे. (13) तावन्मैथुनं संत्यजेत्, a variant in D. सापतं मैथुनं त्यजेत्, wherein the first term is