रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 434, कुल 558 में से
संदर्भ में पढ़ेंअष्टादशः पटलः । ४११ पुनरन्यं प्रवक्ष्यामि वज्रभस्मरसायनम् ॥ ६५ ॥ प्रथमं जारयेत्$^1$ सूते गन्धकं सुरवन्दिते$^2$ । दापयेत्त्रिगुणं तीक्ष्णं समं हेम च सूतके$^3$ ॥ ६६ ॥ तेनैव हेमजीर्णेन वज्ररत्नं तु$^4$ लेपयेत् । बालवत्सपुरीषेण तद्रत्नं वेष्टयेत्ततः$^5$ ॥ ६७ ॥ बद्ध्वा पोटलिकां तेन पुटपाकं तु दापयेत् । तत्क्षणाज्जायते भस्म शङ्खकुन्देन्दुसन्निभम् ॥ ६८ ॥ तद्वज्रभस्म$^6$ सुभगे कारयेत् पिष्टिकासमम्$^7$ । तत्सूतगोलकरजो$^8$ गतदेहं$^9$ विमर्दयेत् ॥ ६९ ॥ पुनस्तद्गोलकरजो बालवत्सपुरीषकैः । मूषालेपं तु तेनैव अर्द्धाङ्गेन$^{10}$ तु कारयेत् ॥ ७० ॥ तद्धमेदन्धमूषायां$^{11}$ मूर्च्छितं वज्रजारितम्$^{12}$ । फूत्काराणां सहस्रेण$^{13}$ भस्म तज्जायते क्षणात् ॥ ७१ ॥
(1) D reads जायते. K reads मारयेत्. (2) समगन्धं च दीयते, a variant in D. K has an incomplete charaṇa — गंधते. (3) D reads सहसे स च सूतकम्, which is incorrect. K reads समहेमो च सूतकं, which is also incorrect. (4) D reads वज्रकं ता तु, which is senseless. (5) This hemistich and the next one are not found in D. (6) D and K read तद्भस्मवज्र, which is grammatically incorrect. (7) D has चर्वयेत् पिष्टिकः समम्. K has चर्वयेत् पौष्टिकासमं. (8) तत्सूतगोलकं भाग, a variant in B. (9) K reads गतदंतं. (10) D reads प्रवर्द्धेन; which is incorrect. B reads अर्धोर्द्धेन. (11) B reads धमेत्तदन्धमूषायां. D has an incomplete charaṇa —-धमयेद्देष. (12) B reads वज्रजारिते. D reads वज्राग्जारितं. Both are incorrect. (13) B and D read सहस्रे वै.