रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
DevanagariHindipublished558 पृष्ठ
पृष्ठ 452, कुल 558 में से
संदर्भ में पढ़ेंपृष्ठ 452
एकादशः पटलः । ४२६ पूजां कृत्वा क्षिपेद्ब्रह्मे षण्मासात् स भवेत् प्रिये । अभयः सर्व्वशत्रूणां¹ वज्रकायो महाबलः ॥ १८५ ॥ नन्दिकेश²कुमाराद्या भक्ष्यमाणं हरन्ति ये । नष्टच्छाया न दृश्यन्ते हस्ते ददति³ भक्ष च ॥ १८६ ॥ क्रियमाणं रसं तैस्तु⁴ मूढबुद्धिर्न पश्यति⁵ । कथयेत् सर्व्वजन्तूनां न मे सिद्धी⁶ रसायने ॥ १८७ ॥ मनसा रससिद्धिसु⁷ तथा क्लेशो मया कृतः⁸ । मया कृता द्रव्यहानिर्दुर्धिया⁹ मूढचेतसा ॥ १८८ ॥ ईदृशं नैव जानाति¹⁰ विधिहीनं मया कृतम् । पापिष्ठो दूषयेच्छास्त्रमात्मकर्म्म न विन्दति ॥ १८९ ॥ विधिहीनो रसो देवि¹¹ नैव सिध्येत्¹² कदाचन ॥ शास्त्रहीनस्य देवेशि नैव सिद्धिर्वरानने¹³ ॥ १९० ॥ अशुभैः कर्