रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 453, कुल 558 में से
संदर्भ में पढ़ें४२० रसार्णवे न सिद्ध्येद्रसशास्त्रे तु¹ न सिद्ध्येत्तादृशो गुरुः² ॥ १८१ ॥ न प्रापेत्तादृशींमाज्ञां³ नैव ज्ञानं च तादृशम्⁴ । न प्रापेत्तादृशीं नारीमेकचित्तां वराङ्गने ॥ १८२ ॥ न प्रापेद्रसवन्तं च तां च देवीं रसाङ्कुशोम्⁵ । यस्य तुष्टः शिवः साक्षात्तस्य सिद्धौ⁶ रसायने ॥ १८३ ॥ पुनरन्यत्⁷ प्रवक्ष्यामि गोलबन्धनमुत्तमम् । येन भक्षितमात्रेण⁸ जायते ह्यजरामरः ॥ १८४ ॥ गन्धाभ्रकान्तसहितं भानुखर्परकाञ्चनम् । समं तीक्ष्णं⁹ रवेन्द्रस्य बद्धं कृत्वा तु गोलकम् ॥ १८५ ॥ रसेन्द्रं पञ्चपलिकं¹⁰ समभागेन मेलयेत् । सप्तजम्बीरतोयेन¹¹ मर्दयेद्गोलकस्य च¹² ॥ १८६ ॥ छायाविशुष्कं गोलं तु शशिभावं करोति तत् । (1) न सिद्ध्येत्तादृशे शास्त्रे, a variant in D. (2) न सिद्ध्येत्तादृशो गुरुः, a variant in D. न सिद्ध्येता वराङ्गने, an incorrect variant in K. (3) D reads तादृशीं विद्यां. (4) ज्ञानं स्नानं द्रव्याण तादृशं, an incorrect variant in D. This hemistich and the next one are not found in K. (5) B reads रसांङ्कुशां. (6) K reads erroneously सिद्धि. (7) B, D and K read पुनरन्यं, which is grammatically incorrect. (8) येन च भक्ष- मात्रेण, a variant in D. येन भक्षणमात्रेण, a variant in K. (9) D reads समं जीर्णे. K reads नमो जीर्णे. Both are partly incorrect. (10). रसेन्द्रं पञ्चमैकखं, an incorrect variant in D. (11) B reads सप्तमं यथा- कल. K reads सप्तबीजं रसो येन. (12) यथा तद्गोलकस्य वा, a variant in B. गोलकस्य यथाकथा, an incorrect variant in K.