रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 459, कुल 558 में से
संदर्भ में पढ़ें४३६ रसार्णवे तस्मिन्नेकार्णवे घोरे नष्टस्थावरजङ्गमे । देवा यत्र¹ विलीयन्ते सिद्धस्तत्रैव लीयते ॥ २२८ ॥² भूतकालान्तको नाम चण्डोऽयमुपवर्णितः³ ॥ २२९ ॥ तत्त्वतोऽयं⁴ महादेवि यदा कर्तुं न शक्यते । अनेनैव शरीरेण तदा⁵ सिद्धिर्भविष्यति ॥ २३० ॥ इति श्रीपार्वतीपरमेश्वरसंवादे⁶ रसार्णवे रससंहितायां देहवेधो नाम⁷ अष्टादशः पटलः । ॥ समाप्तश्चायं ग्रन्थः⁸ ॥ (1) B reads भुवनानि. (2) This śloka is a repitition of the previous śloka No. 170. (3) चण्डोऽयमुपवर्जितः, an incorrect variant in D. (4) कंधश्चाद्यं, a reading in D. तथाद्यं, a reading in D. तत्त- चायं, a reading in K. (5) D and K read यथा. (6) B and D want this portion. (7) D reads हेमविधो नाम, which is incorrect. (8) B has ॥ इति गौरसंहितायां रसार्णवं संपूर्णम् ॥