रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
DevanagariHindipublished558 पृष्ठ
पृष्ठ 460, कुल 558 में से
संदर्भ में पढ़ेंपृष्ठ 460
एतद्ग्रन्थसङ्कलनम् । काश्मीराद्दक्षिणावर्त्तात् विकानीराच्च देशतः । मान्द्राजाञ्चैव नगरात् बहुवित्तोपघाततः ॥ प्रफुल्लचन्द्ररायेण रसायनविपश्चिता । श्रीमता धीमताहृत्य तन्त्राणि बहुयत्नतः ॥ तेषान्तु बहुदोषाणामशुद्धानाञ्च वर्णतः । पाठापाठविवेकाय विशुद्धीकरणाय च ॥ नियुक्तः श्रीहरिश्चन्द्रः कविरत्नाभिधो द्विजः । रसार्णवमिमं ग्रन्थं कलयामास यत्नतः ॥ कलिकातापुरे चन्द्रनेत्रवह्नीन्दुसम्मिते । शाके ग्रन्थः समाप्तोऽयं तपोमासीन्दुजे दिने ॥