रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 55, कुल 558 में से
संदर्भ में पढ़ेंद्वितीयः पटलः । ३१ तत्सोऽहं परं सत्यं¹ व्योमस्थायि परात्परम्² । शून्यं शून्यं पुनः³ शून्यं त्रिशून्यञ्च⁴ निरामयम् ॥ ११४ ॥ नभश्च गगनं व्योम खमाकाशं⁵ च केवलम् । निष्कलं निर्मलं नित्यं निस्तरङ्गं निरामयम् ॥ ११५ ॥ निष्प्रपञ्चं⁶ निराधारं निर्गुणं गुणगोचरम्⁷ । एवंरूपं सदा ध्यायेत् स्वदेहे रसभैरवम् ॥ ११६ ॥ यदा च निश्चलं⁸ ध्यायेत् यदा च निश्चलं⁹ मनः । वह्निमध्ये तदा¹⁰ सूतो बध्यते निश्चलस्तथा¹¹ ॥ ११७ ॥ यदा च¹² चलति ध्यानं रसो वह्नौ न तिष्ठति ॥ ११८ ॥ मण्डलस्य बहिः¹³ रात्रौ सुरामत्स्यामिषादिभिः । भक्षयेद्¹⁴यक्षगन्धर्व्वान् पिशाचान् राक्षसांस्तथा ॥ ११९ ॥
(1) B reads तस्थोऽहं. K reads तु पदं शून्यं. M reads तु परं सत्यं. (2) B has व्योमव्यापि परापरं. व्योमव्यापीच तत्परम्, a variant in M, which is erroneous. (3) K reads पर. (4) B reads विशून्यञ्च. (5) खप्रकारं, a variant in K. [This repetition expresses the intensity of essence of God, who is compared with nothing but the sky] (6) K reads निःप्रसङ्गं. (7) नागमन्वगुणचरम्, a variant in M, which has no clear meaning. (8) K reads त्वनिश्चलं, which is inc. (9) B reads न चल. K reads तदा च. M reads यदा वै. (10) B reads तथा. (11) M reads तदा, thus creating a tautology. (12) B and K read यथा च. M reads यदा स. (13) K reads मंडल स. M reads मण्डपं कारयेत्. (14) The portion beginning from भक्षयेद् and ending in बटुकैश्वरम् is wanting in M.