रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 57, कुल 558 में से
संदर्भ में पढ़ेंद्वितीयः पटलः । ३३ न देयं दुष्टबुद्धीनां गोष्ठीरूपेण याचके ॥ १२६ ॥¹ अष्टम्यां पौर्णमास्यां च² अमावास्यां³ युगादिषु । अयने विषुवे⁴ चेव चतुर्दश्यां विशेषतः । रसोत्सवं प्रकुर्वीत यथावित्तानुसारतः ॥ १२७ ॥⁵ एवं रसोत्सवं देवि यः कुर्याद्भक्तिसंयुतः । ब्रह्महत्यादिपापानि नश्यन्ति विविधानि च ॥ १२८ ॥ अनेन विधिना यत्र पूजां कुर्व्वन्ति साधकाः⁶ । न तत्र रोगदौर्गत्यं नेतयः⁷ प्रभवन्ति च ॥ १२९ ॥ एवंविधां⁸ रसे पूजां प्रतिष्ठाप्य यथाविधि । पश्चात्कर्म विधातव्यमात्मनः शुभमिच्छता⁹ ॥ १३० ॥ अन्यथा¹⁰ कुरुते यस्तु तस्य सिद्धिर्न जायते । अपायः¹¹ पापशंका च बुद्धिभङ्गो हि जायते ॥ १३१ ॥
(1) K reads गोष्ठीभूय न याचयेत्. This hemistich is wanting in M. (2) K reads पूर्णमायां च, which seems to be an error of the scribe. M reads पूर्णिमायां वा. (3) अमावश्यां वा युगादिषु, a variant in K, which destroys the metre. (4) M reads विषुवै, which is incorrect. (5) After this śloka, there is a hemistich in M, which runs thus :— नश्यन्ति पापसङ्घानि महासिद्धिः प्रजायते ॥ Also the following two ślokas (128 and 129) are not found in M. (6) K has यस्तु पूर्व्वं कुर्वीत साधकः, wherein पूर्व्वं is incorrect. (7) K reads रोगा जायन्ते न पुनः. (8) K reads एवंविधे. (9) सिद्धिमिच्छता, a variant in M. (10) M reads अयथा. (11) The portion beginning from अपायः and ending in प्रिये (ślokas 131-- 132) is wanting in M. 5