रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 60, कुल 558 में से
संदर्भ में पढ़ें३६ रसार्णवे प्रणवं पूर्वमुच्चार्य्य बीजं शब्दमनुत्तरम्¹ । क्रींकारञ्चैव² क्रींकारं हंसबुद्धि³मनन्तरम् ॥ ५ ॥ कालपाशं महामन्त्रं गृह्णीयात्साधकेश्वरः⁴ । महारम्भे तु तन्मन्त्रं प्रतीहारं रसाङ्कुशम्⁵ ॥ ६ ॥ लक्षमेकं जपेत्तस्य महासिद्धिः प्रवर्त्तते ।⁶ बालवत्सपुरीषं तु⁷ ततः केनैव ग्राहयेत्⁸ ॥ ७ ॥ चिताग्नि⁹भस्म तेनैव ग्राहयेत् परमेखरि । क्षिप्रं तदुत्तमं स्थानं रसेन्द्रस्तत्र तिष्ठति ॥ ८ ॥ मार्जन्या मार्जयेत्स्थानं कुब्जिकाख्या तु खेचरी¹⁰ । द्वात्रिंशदक्षरा¹¹ देवि पञ्चनादेषु संस्थिता ॥ ९ ॥ ततः सिद्धाश्च चत्वारः पुरुषाष्टादश¹² स्मृताः । अद्य¹³पञ्चकसंयुक्ता ध्यानं स्यात्¹⁴ पञ्चकं पुनः ॥ १० ॥ योगिनोष्टकसंयुक्तं¹⁵ सप्तविंशत्क्रमान्वितम्¹⁶ । (1) प्रणवशब्दमनुत्तरम्, a variant in K. (2) क्रींकारः चैव, a variant in K. which is incorrect, as it is connected with उच्चार्य्य. (3) K reads हसशब्द. (4) This charana and the next are wanting in K. (5) K reads प्रणिहार रसाङ्कुश, which is incorrect. (6) This hemistich is wanting in M. (7) K reads चौण in lieu of बाल. M reads बालवत्सपुरैवेषु. (8) K reads पुनस्तेनैव लइयेत्, which has no clear sense. M reads गृह्णयेत्, which is incorrect. (9) K reads चितास्थि. (10) कुब्जिकाख्यां सुखचरीं, a reading in M. (11) M reads द्वात्रिंशदक्षरां. (Vide Paṭala II, verse 68.) (12) K reads पुरुषाष्टदिशः. (13) M reads षट्. (14) K reads ध्यानाख्या. (15) योगिनाश्टकसयुक्ताः, a variant in K. (16) K reads सप्तविशत्कर्मान्विताः.