रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 61, कुल 558 में से
संदर्भ में पढ़ेंतृतीयः पटलः । २७ एकाशीतिपदैर्युक्तं पञ्चावरणसंयुक्तम् ॥ ११ ॥ अनेन क्रमयोगेन मार्जनीं परिपूजयेत्¹ । अनेन मार्जयेत् क्षेत्रं रसेन्द्रो यत्र तिष्ठति ॥ १२ ॥ उपलेपन्तु तत्रैव चण्डघण्टास्तु कारयेत् । पूर्वे गृहे² तु सा देवी चण्डघण्टा व्यवस्थिता ॥ १३ ॥ चण्डभैरविका देवी संस्थिता³ दक्षिणे गृहे । गोमयं तेन गृह्णीयाल्लेपनार्थं वरानने ॥ १४ ॥ चण्ड⁴कापालिनी देवी⁵ संस्थिता⁶ चोत्तरे गृहे । गृहीत्वा चोदकं तेन⁷ लेपयेद्भूमिमण्डलम्⁸ ॥ १५ ॥ सप्तदशाक्षरां कालीं⁹ खल्ल¹⁰पाषाणतो न्यसेत् । द्वात्रिंशदक्षरं घोरं मर्दके¹¹ तु नियोजयेत् ॥ १६ ॥ गृह्णीयात् काञ्चिकां देवि कालपाशेन मन्त्रितः ।¹² एवं सुकर्मसंयोगं कुरुते खेचरीकुलम् ॥ १७ ॥ षष्टाशीतिसहस्राणि याः स्थिता दिव्यखेचरी¹³ । (1) M reads तंन पूजयेत्. (2) पूर्व्वगेहे, a variant in K. (3) K reads सा स्थिता. (4) M reads पश्च. (5) M reads देव्या, which is incorrect. (6) K reads सा स्थिता. (7) M reads देवि. (8) लेपन्तभूमिमण्डले, a variant in M. (9) साष्टादशाक्षरी काली, a variant in K. (10) All the MSS. agree in spelling खल्ल thus--खल. But no lexicon supports the latter spelling. (11) K reads मर्दने. (12) गृहीत्वा काञ्चिकां देवि कालपार्शेन चर्षिताम्, a variant in K. (13) [इति नाथा] is to be understood after दिव्यखेचरी. Both K and M read या (without विसर्ग), which is incorrect.