रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 64, कुल 558 में से
संदर्भ में पढ़ेंपृ० रसार्णवे तदा तु सिद्ध्यते¹ तस्य साधकस्य फलं² प्रिये ॥ २८ ॥ रसाङ्कुशं महामन्त्रं जपेत्तु हृदयान्तरे³ । अन्ये ये⁴ योगिनोमन्त्राः सर्व्वान्त्रारौष जापयेत्⁵ ॥ २९ ॥ अप्रकाश्यन्तु⁶ तेनैव मन्त्रराजं रसाङ्कुशम् । अप्रकाश्यञ्च⁷ नारीणां रक्षयेत्प्रणवं तथा⁸ । महासमयविभ्रंशं⁹ नारीणां हृदयं यथा¹⁰ ॥ ३० ॥ कुब्जिकाद्यास्तु ये मन्त्रा मया¹¹ ते संप्रकाशिताः । त्रैलोक्यं क्षोभितास्ते तु¹² न मन्यन्ते मम प्रिये ॥ ३१ ॥¹³ रसाङ्कुशेन ज्ञानेन¹⁴ त्रैलोक्यं वश्यतां¹⁵ व्रजेत् ॥ ३२ ॥ (1) B reads भिद्यते, which is incorrect. (2) B reads परं. M reads रमं. (3) B reads जपस्य तु हृदन्तरे. M reads हृदयाम्बुजे. All the texts read जपस्यं,