भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 99, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 99

भ्रामकं चुम्बकं चैव कर्षणं द्रावकं¹ तथा । एवं चतुर्विधं कान्तं रोमकान्तञ्च पञ्चमम् ॥ ४० ॥ एकद्वित्रिचतुःपञ्च-सर्व्वतोमुखमेव तत्² । पीतं कृष्णं तथा रक्तं चित्रवर्णं³ स्यात् पृथक् पृथक् ॥ ४१ ॥ क्रमेण देवतास्तत्र ब्रह्मा⁴विष्णुमहेश्वराः ॥ ४२ ॥ स्पर्शवेधि⁵ भवेत् पीतं कृष्णं श्रेष्ठं रसायने⁶ । रक्तवर्णं महाभागे रसबन्धे⁷ प्रशस्यते ॥ ४३ ॥ भ्रामकं तु कनिष्ठं स्यात् चुम्बकं मध्यमं⁸ प्रिये , उत्तमं कर्षकं देवि द्रावकं चोत्तमोत्तमम् ॥ ४४ ॥ भ्रामयेल्लोहजातं⁹ तु तत्कान्तं¹⁰ भ्रामकं प्रिये । चुम्बयेत्सुम्बकं कान्तं कर्षयेत् कर्षकं प्रिये ॥ ४५ ॥ यत्क्षाच्चाद्रावयेल्लोहं¹¹ तत्कान्तं द्रावकं भवेत्¹² । तद्रोमकान्तं स्फुटितात्¹³ यथा रोमोद्गमो भवेत्¹⁴ ॥ ४६ ॥


(1) M reads here कर्षणं द्रावकं ; but it states afterwards कर्षकं and द्रावक. (2) सर्व्वतोमुखवद्भवेत्, a variant in K. (3) K reads वर्णतः. (4) B reads ब्रह्मा, which is gram. inc. (5) B has स्पर्शवेधो. K has सर्ववेधी. Both the readings are gram. inc. (6) M reads वरामने. (7) M reads रसबन्ध, which is incorrect. (8) K has मध्यमं चुम्बकं. (9) B reads erroneously भामयेल्लोहजातं. (10) M reads erroneously सत्कान्तं. (11) यत्क्षाचाद्भावकं लोहं, a variant in K, which is not ac- curate. (12) M reads प्रिये. (13) रोमकान्तन्तु सज्ञोहं, a variant in K. (14) रोमोद्गमनकारक, a variant in K.