रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 553, कुल 584 में से
संदर्भ में पढ़ेंअथ तृतीय खण्ड । अथ रसायनवाजीकरणाधिकार । रसायनके लक्षण । सुस्थस्यौजस्करं किञ्चित्किञ्चिदार्तस्य रोगनुत् । यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ॥ १ ॥ जिस औषधिके सेवन करनेसे स्वस्थ मनुष्यके ओजकी वृद्धि होती है और रोगी मनुष्यके रोगोंकी निवृत्ति होती है तथा जो जरा और व्याधियोंको दूर करती है उस औषधिको रसायन कहते हैं ॥ १ ॥ श्रीमन्मथ रस । रसगन्धकयोर्ग्राह्य कर्षमेकं सुशोधितम् । अभ्रं निश्चन्द्रकं दद्यात्पलार्द्धं सुविचक्षणः ॥ २ ॥ कर्पूरं शाणकं दद्याद्वङ्गञ्च कोलसम्मितम् । ताम्रं कोलार्द्धकं तत्र निःशेषमारितं क्षिपेत् ॥ ३ ॥ लौहं कर्षं सुजीर्णञ्च वृद्धदारकबीजकम् । विदारी शतमूली च क्षुरबीजं बला तथा ॥ ४ ॥ मर्कट्यतिबला चैव जातीकोषफले तथा । लवङ्गं विजयाबीजं श्वेतसर्जं यमानिका ॥ ५ ॥ एतेषां चूर्णमादाय प्रक्षिपेच्छाणसम्मितम् । गुञ्जाद्वयञ्च भोक्तव्यं कोष्णं क्षीरं पिबेदनु ॥ ६ ॥ गृहे यस्य शतं स्त्रीणां विद्यतेऽतिव्यवायिनः । न तस्य लिंगशैथिल्यमौषधस्यास्य सेवनात् ॥ ७ ॥ न च शुक्रं क्षयं याति न बलं ह्रासतां व्रजेत् । कामरूपी भवेद्दिव्यो वृद्धः षोडशवर्षवत् ॥ ८ ॥ रसायनवरो बल्यो वाजीकरण उत्तमः। रसः श्रीमन्मथो नाम महेशेन प्रकाशितः ॥ ९ ॥