रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 571, कुल 584 में से
संदर्भ में पढ़ेंभाषाटीकासहित । ( ५४६ ) अतिशय पराक्रमी हो जाता है । पुत्रकी इच्छा करनेवाली स्त्रियोंके उत्तम पुत्र उत्पन्न होते हैं । इस औषधिके गुण महादेवके सिवाय अन्य कोई नहीं जान सकता है ॥ ९०-९८ ॥ बृहच्छृङ्गाराभ्र । पारदं गन्धकञ्चैव टङ्कणं नागकेशरम् । कर्पूरं जातिकोषञ्च लवङ्गं तेजपत्रकम् ॥ ९९ ॥ एतेषां कर्षभागानि सुवर्णं तत्समं भवेत् । शुद्धकृष्णाभ्रचूर्णञ्च चतुष्कं पिचुभागिकम् ॥१००॥ तालीशं घनकुष्ठञ्च मांसी पुष्पवरांगकम् । एलाबीजं त्रिकटुकं त्रिफला कारिपिप्पली ॥ १ ॥ एषां कर्षद्वयञ्चैव पिप्पलीक्वाथभावितम् । अनुपानं प्रयोक्तव्यं चोचं क्षौद्रसमायुतम् ॥ २ ॥ नानारोगप्रशमनं विशेषात्कासरोगनुत् । वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम् ॥ ३ ॥ हृच्छूलं पार्श्वशूलञ्च शिरःशूलं विशेषतः । स्वरामयं क्षयं कुष्ठं श्लेष्माणं वातशोणितम् ॥ ४ ॥ बृहच्छृङ्गाराभ्रनाम विष्णुना परिकीर्त्तितम् । रक्तपित्तञ्च कासञ्च नाशयेन्नात्र संशयः ॥१०५॥ इति श्रीगोपालकृष्णसूरिप्रणीते रसेन्द्रसारसंग्रहे रसायना- धिकारो वाजीकरणाध्यायश्च समाप्तः ।