रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 158, कुल 520 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः 113 जणस्स अण्णो दंसणोवाओ णत्थित्ति, ता जहा तहा आलि- क्खिअ णं पेक्खिस्सं । ( इति नाटेन लिखति ) (क) (क) हृदय, प्रसीद प्रसीद । किमनेन आयासमात्रफलेन दुर्लभजनप्रार्थनानुबन्धेन ? अप्यञ्च, येन दृष्टेन ते संवृद्धः सन्तापः ननु वर्द्धते पुनरपि तमेव प्रेक्षितु मभिलषसि इति अहो ते मूढता ! अयि नृशंस हृदय ! जन्मतः प्रभृति सह संवर्द्धितम् इमं जनं परित्यज्य क्षणमात्रदर्शनपरिचितं जनम् अनुगच्छन् कथं न लज्जसे ? अथवा कः तव दोषः ? अनङ्गशरपतनभीतेन त्वया एवं व्यवसितम् । अनङ्ग' तावदुपालभे । भगवन् कुसुमायुध, निर्ज्जितसकलसुरासुरो भूत्वा कथ' स्त्रीजनं प्रहरन् न लज्जसे ? अथवा अनङ्गो- ऽसि । सर्व्वथा मम मन्दभाग्याः अनेन दुर्निमित्तेन अवश्य' मरणमेव उपस्थितम् । तद् यावत् इह कोऽपि न आगच्छति तावदेव आलेख्यसमर्पितं जनं प्रेक्ष्य यथा- समीहित' करिष्यामि । यद्यपि मे अतिसाध्वसेन वेपते अयमतिमात्रम् अयमहस्तः, तथापि तस्य जनस्य अन्यो दर्शनोपायो नास्तीति, तत् यथा तथा आलिख्य ननु प्रेक्षिष्ये । हृदय प्रसीदेत्यारभ्य द्वितीयाङ्कस्य समाप्ति' यावत् प्रतिमुखसन्धिः । विस्तरः उपरिष्टाद् द्रष्टव्यम् । आयासमात्रफलेन श्रममात्रफलेन । प्रार्थनानुबन्धेन । प्रार्थनायाः अनुबन्धः पौनःपुन्यं तेन । मूढता अपाण्डित्यम् । व्यवसितम् अध्यवसितम् । निर्ज्जिताः निःशेषेण जिताः सकलाः सुराश्च असुराश्च येन सः । सर्व्वेषामुपरि अनङ्गस्य प्रभावो अनुक्त एव । अनङ्गोऽसीति। अनङ्गत्वेन हृदयराहित्यात् दयादिशीलोऽपि नास्ति, तस्मात् उपालम्भोऽपि निरर्थक एव । दुर्निमित्तेन अनङ्गबाणपतनरूपायुधलक्षणेन इत्यर्थः । आलेख्यसमर्पितम् चित्राङ्कितम् । यथासमीहितं यथेप्सितं मरणम् इति यावत्, करिष्यामि । उपरिष्टात् उद्वन्धनेन सागरि- कायाः प्राणत्यागप्रयासेन इदं समीहितं स्फुटीभविष्यति । अतिसाध्वसेन अतिभयेन । अयमहस्तः अयमसौ हस्तश्चेति समासः अवयवावयविनोरभेदात् । ( তারপর চিত্রফলক ও লেখনী লইয়া মদনাবেশ অভিনয় করিতে করিতে সাগরিকার প্রবেশ ) Beng. Trans. সাগরিকা—হৃদয়, প্রসন্ন হও, প্রসন্ন হও। কেবল দুঃখমাত্র-ফল এই দুর্লভ ব্যক্তির পুনঃ পুনঃ প্রার্থনায় কি প্রয়োজন? (সবিস্ময়ে) অধিকন্তু, যাহাকে দেখিলে তোমার সন্তাপ পরিবর্ধিত হয় পুনরায় তাহাকেই দেখিবার জন্য তুমি অভিলাষ 8