रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 171, कुल 520 में से
संदर्भ में पढ़ें126 रत्नावलो सुसङ्गता—अइ सुत्थिदे ! किं अज्जवि चित्तफलएण करिस्ससि ? एसोवि दहिभत्तलम्पडो एतं¹ पञ्जरं उग्घाडिअ दुट्ठवाणरो अदिकंतो² । ³एसा क्खु मेहाविणी उड्डोणा अण्णदो गच्छदि । ता एहि । लहुं अणुसरेम्ह । इमस्स आलावस्स गहिदक्खरा कस्सवि पुरदो मंतइस्सदि । (क) सागरिका—सहि एव्वं करेम्ह । (ख) ( इति परिक्रामतः ) ( नेपथ्ये ) ही ही ! अच्छेरिअं अच्छेरिअं ! (ग) सागरिका—( विलोक्य ) सुसंगदे ! जाणीअदि कहं पुणो दुट्ठ- वाणरो ज्जेव्व आगच्छदि ! (घ) सुसङ्गता—(दृष्ट्वा विहस्य) अइ काअरे ! मा भेहि ! भट्टिणो पस्सवत्तो⁴ क्खु एसो अज्जवसन्तओ । (ङ) ( ततः प्रविशति वसन्तकः ) वसन्तकः—ही ही भो ! अच्छेरिअं अच्छेरिअं ! साहु रे सिरिखंडदास धम्मिअ, साहु ! (च) (क) अयि सुस्थिते ! किम् अद्यापि चित्रफलकेन करिष्यसि ? एषोऽपि दधिभक्त- लम्पटः एतत् पञ्जरम् उद्घाट्य दुष्टवानरोऽतिक्रान्तः । एषा खलु मेधाविनी उड्डीना अन्यतः गच्छति । तदेहि लघु अनुसरावः । अस्य आलापस्य गृहीताक्षरा कस्यापि पुरतो मन्त्रयिष्यते । (ख) सखि, एवं कुर्वः । (ग) ही ही ! आश्चर्यम् आश्चर्यम् ! (घ) सुसङ्गते, ज्ञायते कथं पुनः दुष्टवानरः एव आगच्छति । (ङ) अयि कातरे, न बिभीहि, भर्तुः पार्श्ववर्ती खलु एषः आर्य- वसन्तकः । (च) ही ही भोः ! आश्चर्यम् आश्चर्यम् ! साधु रे श्रीखण्डदास धार्मिक, साधु ! 1 सारिआपञ्जरं । 2 अपक्कंतो । 3 मेहाविणी । 4 पासवत्ती ।