रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 184, कुल 520 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः 139 मय्यापि प्रत्यभिज्ञाय वैदग्ध्यादसावपि तत्रालिख्य रतिव्यपदेशेन दर्शितेति । विदूषकः—(छोटिकां दत्त्वा) भो वयस्स ! जुज्जइ क्खु, एदं । (क) राजा—भो वयस्य ! तूष्णीं भव । पुनरपि व्याहरति । तच्छृणुवस्तावत् ' ( उभावपि शृणुतः ) विदूषकः—भो पुणोबि एसा एव्वं भणादि—महि ! मा लज्ज। ईदिसस्स कण्णारअणस्स अवस्स' ज्जेव्व ईदिसे वरे अहिला- सेण होदव्वं । (ख) राजा—अस्ति काचिद् युक्तिः । विदूषकः—भो वयस्स ! मा पंडिअगव्वं उव्वह । अहं दे एदाए मुहादो सुणिअ सव्वं वक्खाणइस्सं । जा एसा आलि- खिदा सा क्खु कुक्षा दंसणीआ । (ग) राजा—यद्येवमवहितौ शृणुवस्तावत् । अस्त्यत्रावकाशो नः कुतूहलस्य । त्वया आलिखितः । प्रत्यक्षमदनमहोत्सवे भगवान् अनङ्ग इति । पुनरपि भणति—सखि, कञ्चात्त्वया अहमेव आलिखिता ? सखि, किम् अकारणे कुप्यसि ? यादृशस्त्वया कामदेव आलिखितः, तादृशी मया रतिः आलिखिता इति । तद् अन्यथासम्भावनि ! किं तव एतेन चापलितेन ? कथय सर्व्वं वृत्तान्तम् । भो वयस्य, किं नु इदम् ? (क) भो वयस्य ! युज्यते खलु एतत् । (ख) भोः पुनरपि एषा एवं भणति—सखि, मा लज्जस्व । ईदृशस्य कन्यारत्नस्य अवश्यमेव ईदृशे वरे अभिलाषेण भवितव्यम् । (ग) भो वयस्य, मा पण्डितगर्व्वम् उद्वह । अह ं ते एतस्याः मुखात् श्रुत्वा सर्व्वं व्याख्यास्यामि । या एषा आलिखिता सा खलु कन्या दर्शनीया ।