भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 209, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 209

164 रत्नावलो . आलाबाणं । ता अन्नदो गमिस्सं । ( इति गन्तुमिच्छति ) (क) सुसङ्गता—अइ असहणे ! इह दाब मुहुत्तअं चिट्ठ, जाब इमादो कदलीघरादो चित्तफलअं गेण्हिअ आगच्छामि । (ख) सागरिका—सहि ! एव्वं करेहि । (ग) सुसङ्गता—एव्वं करेह्मि । (घ) ( सुसङ्गता कदलीगृहाभिमुखं परिक्रामति ) विदूषकः ( सुसङ्गतां दृष्ट्वा ससम्भ्रमम् ) भो वयस्स ! पच्छादेहि एदं चित्तफलअं इमिणा कदलीपत्तेण । एसा क्खु देवीए परिचारिआ सुसंगदा आगदा । (ङ) ( राजा पटान्तेन फलकमाच्छादयति ) सुसङ्गता—( उपसृत्य ) जयदु जयदु भट्टा । (च) राजा—सुसङ्गते ! स्वागतम् । इहोपविश्यताम् । ( सुसङ्गता उपविशति ) राजा—कथमिहस्थोऽहं भवत्या ज्ञातः ? ‘ सुसङ्गता—( विहस्य ) ण केवलं देवो, चित्तफलएण सह (क) अयि, निपुणा खलु त्वमपि ईदृशानामालापानाम् ! तद् अन्यतः गमिष्यामि । (ख) अयि असहने, इह तावत् मुहूर्त्तं तिष्ठ, यावद् अस्मात् कदलीगृहात् चित्र- फलकं गृहीत्वा आगच्छामि । (ग) सखि, एवं कुरु । (घ) एवं करोमि । (ङ) भो वयस्य, प्रच्छादय एतत् चित्रफलकम् अनेन कदलीपर्णेन । एषा खलु देव्याः परिचारिका सुसङ्गता आगता । (च) जयति जयति भर्त्ता ! 1 अइ अणिउणा क्खु तुए इंदिसाणं आलाबाणं ; अउसलक्खि तुह इंदिसाणं etc. 2 पुस्तकान्तरे नास्ति ।