रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 296, कुल 520 में से
संदर्भ में पढ़ेंतृतीयाेऽङ्कः 251 विदूषकः—( ससम्भ्रमम् ) णं एसा । (क) राजा—( उपसृत्य ) प्रिये सागरिके ! शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ । इत्याह्लादकराखिलाङ्गि ! रभसान्निःशङ्कमालिङ्ग्य मा- मङ्गानि त्वमनङ्गतप्तविधुराण्येह्येहि निर्वापय ॥ ११॥ वासवदत्ता—( अपवार्य ) कंचणमाले ! एब्वं सअं मंतदि अज्जउत्तो ! पुणोवि मं कहं आलविस्सदित्ति अहो अच्चरिअं ! (ख) काञ्चनमाला—( अपवार्य ) भट्टिणि ! एब्वं णेदं । किं उण अवरं साहसिआणं पुरिसाणं ण संभाबीअदि ! (ग) (क) ननु एषा । (ख) काञ्चनमाले, एवं स्वयं मन्यते आर्यपुत्रः ! पुनरपि मां कथं चालपिष्यतीति अहो आश्चर्यम् ! (ग) भर्तृ, एवं स्विदम् । किं पुनरपरं साहसिकानं पुरुषाणां न सम्भाव्यते ! तर्ज्यन्ती भर्त्सयन्ती । मृगलाञ्छनः मृगाङ्कश्चन्द्र इति यावत् । अपाहितशरीरः गोपायितदेहः । भावानुबन्धम् अनुरागातिशयम् । उत्साम्यति उत्कण्ठते । तीव्र इति । तीव्रः अतिशयः । स्मरसन्तापः कामदाहः । आदौ प्रथमदर्शनसमये । बाधते पीडां ददाति । आसन्ने समीपवर्त्ति-प्रियसमागमे इत्यर्थः । प्रावृषि वर्षासु अभ्यर्णजलागमः अभ्यर्णः आसन्नः जलागमः यस्मिन् सः दिवसः यथा नितरां सातिशयं तपति तापं ददाति । आर्यावृत्तम् । दृष्टान्तालङ्कारः, उपमानोपमेयस्य बिम्बानुबिम्बत्वात् ॥१०॥ उत्कण्ठानिर्भरं उत्कण्ठया निर्भरा सातिशया यस्मिन् तत् राजदन्तादित्वात् परनिपातः । मन्यते कथयति । शिरःसंज्ञा मस्तकचालनेन सङ्केतम् इत्यर्थः । शीतांशुरिति । शीतांशः