रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 306, कुल 520 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः 261 वासवदत्ता—अज्ज वसंतअ ! ¹णं पढमसंगमे विग्धं करं- तीए मए ज्जेव्व एदस्स अवरद्धं । (क) राजा—²एवं प्रत्यक्षदृष्टव्यलीकः किं ब्रवीमि ! तथापि विज्ञापयामि— आताम्रतामपनयामि विवर्ण³ एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना । कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥ १४॥ ( इति पादयोः पतति ) वासवदत्ता—( हस्तेन वारयन्ती ) अज्जउत्त ! उट्ठेहि उट्ठेहि । णिल्लज्जो क्खु एसो जणो जो अज्जउत्तस्स ईदिसं हिअअं जाणिअ पुणोबि कुप्पदि ! ता सुहं चिट्ठदु अज्जउत्तो । अहं गमिस्सं । (ख) ( इति गन्तुमिच्छति ) काञ्चनमाला—भट्टिणि ! करेहि से पसादं । एव्वं चरण- (क) आर्य्य वसन्तक, ननु प्रथमसङ्गमे विघ्नं कुर्व्वत्या मया एव एतस्य अपराधम् । (ख) आर्य्यपुत्र, उत्तिष्ठ उत्तिष्ठ । निर्लज्जः खलु एष जनो य आर्य्यपुत्रस्य ईदृशं हृदयं ज्ञात्वा पुनरपि कुप्यति ! तत् सुखं तिष्ठतु आर्य्यपुत्रः । अहं गमिष्यामि ।
- णं अज्जउत्तेण । 2. देवि ! एवं प्रत्यक्षव्यलीकः । 3. विलक्षः ।