भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 389, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 389

344 रत्नावली काञ्चन—ञादिकुलबहुमाणो क्खु एसो देबीए। ता एदु एदु भट्टिणी। (क) (इति परिक्रामतः) वासव—(उपसृत्य) जेदु अज्जउत्तो! (ख) राजा—देवि! बहुतरमनेन गर्जितम्। $^1$तदिहस्थावेव पश्यावस्तावत्। (वासवदत्तोपविशति) भद्र! प्रस्तूयतां बहुविधमिन्द्रजालम्। (क) ज्ञातिकुलबहुमान एष खलु देव्याः। तदेतु एतु भर्त्री। (ख) जयतु आर्यपुत्रः। प्रथमेतेति। ऐन्द्रजालिकपिञ्जलनामः ऐन्द्रजालिके पिञ्जल बद्धं नाम यस्य तस्य। इन्द्रस्य चरणे प्रथमत। तथा एव सुप्रतिष्ठितयशसः सुप्रसिद्धख्यातेः शम्बरस्य एतन्नाम्नः इन्द्रजालविशारदस्यासुरस्य चरणे प्रथमेतेति शेषः ॥७॥ धरण्यामिति। मृगाङ्कः चन्द्रः। महीधरः पर्वतः। ज्वलनः अग्निः। मध्याह्ने प्रदोषः सन्ध्या। दाप्यतं स्थाप्यते सर्व्वं विपरीतं कर्तुमङ् चम इत्यर्थः। आज्ञप्तिम् आदेशम् ॥८॥ अवष्टम्भः उत्साहातिशयः गर्व्वः इति यावत्। किमिति जल्पितेन कथनेन ॥६॥ विजनीकृतः 'जनशून्यः कृतः। उद्दे शः स्थानम्। पक्षपातः अत्यादरः। ज्ञातिकुलबहुमानः ज्ञातिकुले पितृकुले बहुमानः आदरः, अस्य ऐन्द्रजालिकस्य उज्जयिन्याः आगतत्वादित्यर्थः। प्रस्तूयताम् आरभ्यताम्। Prose order—ऐन्द्रजालिकपिञ्जलनामः इन्द्रस्य चरणं, तथैव सुप्रतिष्ठित- यशसः शम्बरस्य (चरणं) प्रथमत ॥७॥ किं धरण्यां मृगाङ्कः, आकाशे महीधरः, जले ज्वलनः, मध्याह्ने प्रदोषो दाप्यते ; आज्ञप्तिं देहि ॥८॥ बहुना जल्पितेन किं? यं यं देवं द्रष्टुं हृदये इच्छसि गुरोः मन्त्रप्रसादेन तं तमहं दर्शयामि ॥६॥

  1. तदिहोपविश्यताम्।