भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 416, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 416

चतुर्थोऽङ्कः 371 राजा— वसुभूतिरयं— वसुभूतिः—देव ! दिष्ट्या वर्द्धसे ! राजा— वयस्य !— विदूषकः—जेदु जेदु भवं । (क) राजा—(विचिन्त्य सवितर्कम्) स्वप्ने मतिर्भ्रमति किं न्विद- मिन्द्रजालम् ॥१८॥ विदूषकः—भो ! मा संदे हं करेहि । इंदजालं ज्जेव्व एदं । भणिदं तेन दासीए पुत्तेण इंदआलिएण जहा अवस्सं ज्जेव्व मम एक्को खेलणओ देवेण पेक्खिदव्वोत्ति । ता तं ज्जेव्व एदं । (ख) (क) जयतु जयतु भवान् । (ख) भो मा सन्देहं कुरु । इन्द्रजालम् एव एतत् । भणितं तेन दास्याः पुत्रकेण ऐन्द्रजालिकेन यथा अवश्यमेव मम एकः खेलनकः देवेन प्रेक्षितव्यः इति । तत् तदेवैतत् । जीविताशा प्रियतमस्य राज्ञः दर्शनेनेत्यर्थः । मुहूर्त्तमिति । अंशुकं वस्त्रम् । निगड़संयतासि शृङ्खलितासि ॥१७॥ व्यक्तमिति । लग्नः अपि हुताशनः वह्निः भवतीं न धक्ष्यति दग्धां करिष्यति । यतः यस्मात् ते तव अयं स्पर्शः सन्तापं हरते । तव स्पर्शस्य शीतलत्वात् अग्नेः ते देहं दग्धुं न क्षमत्वम् । अग्नेः दाहकत्वं तव शीतलस्पर्शेन ह्रियते । अग्नेरपि सन्तापम् अतिशयितस्य विरहतापस्य शैत्यमापादयितुं ते स्पर्शः यदा क्षमः, तदा अग्निः तव देहं दग्धुं सर्व्वथा न क्षम इति भावः ॥१८॥ क्वासाविति । तदवस्थम् सा एव अवस्था यस्य तत् पूर्ववत् अदग्धम् अन्तःपुरम् इति शेषः । अग्निपरीतत्वेऽपि अन्तःपुरस्य न किञ्चित् वैपरीत्यम् इति भावः । उच्छ्वसिताः जीविताः ॥१९॥

  1. देव ! इदानीं प्रत्याज्जीविताः खः ।
  2. विजयतां महाराजः ।