रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 425, कुल 520 में से
संदर्भ में पढ़ें380 रत्नावलो सामान्यजनस्य साधारणजनस्य। कृतापराधा कृतदोषा राज्ञा रहः सञ्जातप्रीतित्वाद् इत्यर्थः। अतिनिष्ठुरे एतावत्कालं स्वनामाप्रकटय्य राजान्तःपुरे स्थितत्वात् स्वावस्थाः, निष्ठुरत्वम् इति भावः। देव्या इति। देव्याः वासवदत्तायाः पत्युः वत्सराजात् इत्यर्थः। वियोगः विरहः मद्वचनात् मम वचनमवलम्ब्य प्रथाम् प्रसिद्धिम् उपगतः। मया सागरिका वासवदत्तासमीपे न्यस्ता। तस्यां सागरिकायां राज्ञः सञ्जातप्रीतित्वात् तदेकमनस्कतया च वासवदत्तायाः वत्सराजात् सर्व्वथा विरहः मत्कृत एव इति यौगन्धरायणस्य आशयः। सा देवी वासवदत्ता अन्यकलत्रसंघटनया अन्यत् अपरं यत् कलत्रं स्त्री तया राज्ञः संघटनया संयोगेन सागरिकया इत्यर्थः। सा वासवदत्ता परं भृशं दुःखं प्रापिता विषयी- कृता। इदानीं तस्याः वासवदत्तायाः अयं प्रभोः वत्सराजस्य जगत्स्वामित्वलाभः जगति सार्व्वभौमनृपतेः पदलाभः सागरिकाविवाहेनेत्यर्थः। प्रीतिम् आनन्दं करिष्यति इति सत्यं' तथापि प्रीत्युत्पत्तौ अपि लज्जया वदनं दर्शयितुं न शक्नोमि राजानुमतिमगृहीत्वा एव मया अभिप्रेतस्य सम्पादितत्वादित्यर्थः ॥२०॥ अत्यन्तमाननीयेषु अत्यन्तसत्करणीयेषु प्रभु- ष्वित्यर्थः। स्वामिभक्तिव्रतम् प्रभुभक्तिनियमः निरनुरोधवृत्ति अनुरोध्यस्य छन्दानुवर्त्तनस्य वृत्तिः कार्य्यं वर्त्तनं निर् नास्ति अनुरोधवृत्तिः यस्मिन् तत्। स्वामिहितार्थं क्रियमाणे कार्य्ये क्वचित् कदाचिद् वा प्रभोः चित्तवृत्तेः अननुगमनं न दोषाय इति भावः। Prose order. तदा मद्वचनात् देव्याः पत्युः वियोगः प्रथाम् उपगतः ; सा देवी अन्यकलत्रसंघटनया परं दुःखं प्रापिता ; अयं प्रभोः जगत्स्वामित्वलाभः तस्याः प्रीतिं करिष्यति (इति) सत्यं ; तथापि लज्जया वदनं दर्शयितुं नो शक्नोमि ॥२०॥ Beng. Trans. বিদূষক—( স্বগত ) রত্নাবলী দেখিয়াই আমি প্রথমে মনে বুঝিতে পারিয়াছিলাম যে ইহা সাধারণ লোকের অলঙ্কার হইতে পারে না। বসুভূতি—(উঠিয়া) রাজপুত্রি! আশ্বস্ত হউন, আশ্বস্ত হউন। এই যে আপনার জ্যেষ্ঠা ভগিনী ( মনে ) দুঃখ পাইতেছেন। ইঁহাকে আলিঙ্গন করুন। রত্নাবলী—(আশ্বস্ত হইয়া রাজাকে তির্য্যগভাবে অবলোকন করতঃ স্বগত) আমি অপরাধ করিয়াছি। (সেইজন্য) দেবীর নিকট মুখ দেখাইতে পারিতেছি না। (অধোমুখে অবস্থান) বাসবদত্তা—( সজলনেত্রে বাহুপ্রসারণ করিয়া ) অতিনিষ্ঠুরে! ইদানীং আমার প্রিয়- ভগিনি! এস, স্নেহ প্রদর্শন কর। ( কণ্ঠালিঙ্গন )