भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 463, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 463

एको गोपालको नाम द्वितीयः पालकस्तथा । ततस्तं नृपतिं स्वप्ने तुष्टो वक्ति स्म वासवः । प्राप्स्यस्यानन्यसदृशीं मत्प्रसादात् सुतामिति ॥ ७६ ॥ ततः कालेन जातास्य राज्ञः कन्या तु तन्वथ । दत्ता मे वासवेनेषा तुष्टेनेति स भूपतिः । नाम्ना वासवदत्तां तां तनयामकरोत्तदा ॥ ७८ ॥ ॥ इति कथासरित्सागरे कथामुखलम्बके तृतीयस्तरङ्गः ॥

चतुर्थस्तरङ्गः ( वासवदत्ताहरणोद्योगः )

इति सञ्चिन्त्य संमन्त्र्य स राजा मन्त्रिभिः सह । अकारयत् स्वसदृशं महान्तं यन्त्रहस्तिनम् ॥ ४ ॥ तं चान्तर्वीरपुरुषैः कृत्वा च्छन्नैरधिष्ठितम् । विन्ध्याटव्यां स निदधे राजा यन्त्रमयं गजम् ॥ ५ ॥ तत्रे तं चारपुरुषाः पश्यन्ति स्म विदूरतः । गजबन्धरंसासक्तवत्सराजीपजीविनः ॥ ६ ॥ ते च त्वरितमागत्य वत्सराजं व्यजिज्ञपन् । देव दृष्टो गजोऽस्माभिरेको विन्ध्यावने भ्रमन् ॥ ७ ॥ प्रातश्च मन्त्रिवचनं त्यक्त्वा गजतृष्णया । पुरस्कृत्यैव तांश्चारान् ययौ विन्ध्याटवीं प्रति ॥ १२ ॥ प्राप्य विन्ध्याटवीं तस्य गजस्य क्षोभशङ्कया । वत्सराजः स सैन्यानि दूरादेव न्यवारयत् ॥ १४ ॥ चारमात्रसहायस्तु वीणां घोषवतीं दधत् । निजव्यसनविस्तीर्णां तां विवेश महाटवीम् ॥ १५ ॥