रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished520 पृष्ठ
पृष्ठ 465, कुल 520 में से
संदर्भ में पढ़ेंपृष्ठ 465
420 रत्नावली पञ्चमस्तरङ्गः ( वासवदत्ताहरणम् ) अथ वासवदत्ता सा शनैर्वत्सेश्वरं प्रति । गाढं बबन्ध सद्भावं पितृपक्षपराङ्मुखी ॥१॥ ततो वत्सेशनिकटं पुनर्यौगन्धरायणः । विवेशादर्शनं कृत्वा सर्व्वानन्यान् जनान् प्रति ॥२॥ वसन्तकसमक्षं च विजने तं व्यजिज्ञपत् । राजन् बद्धो भवांश्चण्डमहासेनेन मायया ॥३॥ सुतां च दत्त्वा संमान्य त्वामयं मोक्तुमिच्छति । तदस्यैनां स्वयं हृत्वा गच्छामस्तन्मयां वयम् ॥४॥ एवं ह्यस्य प्रतीकारो दृप्तस्य विहितो भवेत् । अपौरुषकृतं लोके नैव स्याल्लाघवं च वः ॥५॥ अस्ति चैतेन दत्तास्यास्नपनायाः करिण्यका । राज्ञा वासवदत्ताया नाम्ना भद्रवती नृप ॥६॥ सा चानुगन्तुं वेगेन शक्या नान्य