भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 467, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 467

422 रत्नावली षष्ठस्तरङ्गः ( वत्सराजस्य कौशाम्ब्यागमनम् ) अथ विन्ध्यान्तरे तस्य वत्सराजस्य तिष्ठतः । पार्श्वं चण्डमहासेनप्रतीहारः समाययौ ॥१॥ स चागत्य प्रणम्यैनं राजानमिदमब्रवीत् । राजा चण्डमहासेनस्तव सन्दिष्टवानिदम् ॥२॥ युक्तं वासवदत्ता यत् स्वयमेव त्वया हृता । तदर्थमेव हि मया त्वमानीत इहाभवः ॥३॥ तदिदानीमविधिना ममास्या दुहितुर्यथा । न विवाहो भवेद्राजन् प्रतीक्षेथास्तथा मनाक् ॥५॥ गोपालको हि न चिरादत्रैवैष्यति मत्सुतः । स चास्याः स्वसुरुद्वाहं यथाविधि विधास्यति ॥६॥ स प्रतस्थे ततो देव्या सह वासवदत्तया । स्वपुरीं प्रति राजेन्द्रः प्रातरेवापरेऽहनि ॥१५॥ ददृशुश्चात्र पौरास्तं वत्सराजं वधूसखम् । प्रशान्तशोकाः शिखिनः सविद्युतमिवाम्बुदम् ॥१८॥ अथ वासवदत्ताया भ्राता गोपालकोऽचिरात् । आययौ सह कृत्वा तौ प्रतीहारपुलिन्दकौ ॥२२॥ ततो यथावद् वहते तस्या वत्सेश्वरस्य च । व्यधौ गोपालकोऽन्येद्युरुद्वाहमहोत्सवे ॥२६॥ रतिवल्लीविभिन्नमिव पल्लवमुज्ज्वलम् । पाणिं वासवदत्तायाः सोऽथ वत्सेश्वरोऽग्रहीत् ॥२७॥ गोपालकार्पितं रत्नं राज्ञा चोपायनैस्तदा । पूर्वोक्तैश्च ददौ सख्यां वत्सेश्वरो राजराजताम् ॥३१॥