रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 475, कुल 520 में से
संदर्भ में पढ़ें430 रत्नावली सुतेवाश्वासिता तव कृपया मम दयिता । असूत तनयं काले सेनान्यमिव पार्वती ॥५१॥ तस्याकाशभवा वाणी चकारोदयनाभिधाम् । निजवंशशशाङ्कस्य भविष्यच्चक्रवर्त्तिनः ॥५२॥ आश्रमे स मुनीन्द्रेण कृतचूडादिकस्ततः । ववृधे बालकशशी सह मातुर्मनोरथैः ॥५३॥ विद्याकलाकलितधीर्युवा नयननन्दनः । सोऽपश्यन् मृगयासक्तो व्याधबद्धं भुजङ्गमम् ॥५४॥ स सर्पो मोचितस्तेन नागो भूत्वा कृताञ्जलिः । सख्यं विधाय पातालं निनाय तमुदारधीः ॥५५॥ पाताले प्रेमविनतस्तं वयस्यमपूजयत् । भगिनीं ललिताभिख्यां ददावुदयनाय सः ॥५७॥ ताम्बूलं स्रजमम्लानां वीणां घोषवतीमपि । अवाप्य राजतनयः फणीन्द्रात् स्वाश्रयं ययौ ॥६०॥ अत्रान्तरे स शबरः कौशाम्ब्यां वणिजं ययौ । सहस्रानीकनामाङ्कमणिकङ्कणविक्रयी ॥६२॥ आदाय रत्नकटकं स बिभीतो महीभुजे । निवेद्य शबरीपतेः प्रणम्य स ययौ वणिक् ॥६३॥ मृगावतीवियोगाग्निदह्यमानतनुर्नृपः । तदाह्ववल्लरीसङ्गसुघटं प्राप्य कङ्कणम् ॥६४॥ मुनिना पूजितस्तत्र दयितां विरहार्दिताम् । लेभे हर्षविशीर्णाक्षस्तनयं चातुलद्युतिः ॥१४०॥ अयं त्वत्तो नरपते मृगावत्यां यशोनिधिः । जातः श्रीमान् शुभो जेता धनञ्जय इवापरः ॥१४१॥ उक्तेति मुनिना दत्तं गृहीत्वोदयनं नृपः । प्रियसहायः स्वपुरीं प्रतस्थे मन्त्रिभिर्वृतः ॥१४२॥