रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 479, कुल 520 में से
संदर्भ में पढ़ें434 रत्नावली श्रुत्वेति मन्त्रिवचनं सेनापतिरभाषत । चक्रवर्त्तिवधूः सा हि भाविनीति श्रुतं मया ॥१३॥ न हि वासवदत्तायां सत्तायास्मै महीभुजे । ददाति मगधाधीशो याचितोऽपि प्रियां सुताम् ॥१४॥ इत्याकर्ण्याब्रवीन्मन्त्री दग्धा देवीति कृत्रिमम् । कृत्वा प्रयोगं सावद्यं लभ्यते मगधात्मजा ॥१५॥ मन्त्रयित्वेति विश्रब्धं बहु यौगन्धरायणः । गोपालमानिनायाशु स्वपुरीं नृपसेवने ॥५५॥ कृत्वा विदितवृत्तान्तं तं नरेन्द्रहिते रतम् । कूटं वासवदत्तायाः दाहे निश्चयमाप्तवान् ॥५६॥ स लावाणकयात्रायां चक्रे भूपतिमुत्सुकम् । देवी च को हि जानीते चरितं प्रौढमन्त्रिणाम् ॥५७॥ अथ तस्मिन् मृगयायां क्रीडार्थं विपिनं गते । यौगन्धरायणोऽभ्येत्य सार्धं गोपालकादिभिः ॥७१॥ कृत्वा ज्ञातकथां देवीं प्राणैः पत्युरिहैषिणीम् । गूढं वसन्तकोपेतां निनाय मगधान् क्षणात् ॥७२॥ तेषु यातेषु मगधान् गोपालोऽपि रुमण्वता । सह लावाणकं दग्ध्वा गूढमन्वचरोऽभवत् ॥७४॥ मन्त्री वृद्धद्विजाकारः प्रविश्य मगधापतेः । कन्यकान्तःपुरं प्राह प्रौढः पद्मावतीं शनैः ॥७५॥ राजपुत्री सुतेयं मे रूपिणी तनयोऽप्ययम् । अन्वेष्टुमस्या गच्छामि चिरविप्रोषितं पतिम् ॥७६॥ निक्षिप्तेयं त्वयि मया सुतस्यायं प्रियंवदः । इत्युक्त्वा प्रययौ मन्त्री तथेत्यभिहितस्तया ॥७७॥ अवन्तिकाभिधानां तां कृत्वा वीक्ष्य द्विजन्मजाम् । मागधी देवतां मेने 'रूपलावण्यराशिभिः ॥७८॥