रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 67, कुल 520 में से
संदर्भ में पढ़ें22 रत्नावली य एषः इति।—( राजपक्षे )—विश्रान्तविग्रहकथः विश्रान्ता निवृत्ता विग्रहस्य युद्धस्य कथा यस्य सः सर्व्वेषामरीणां समूलघातं निहतत्वात् इत्यर्थः । रतिमान् प्रजासु अनुरागवान् राजा वत्सेश्वरः । जनस्य चित्ते वसन् लोकचित्तहारी प्रकृतिप्रियत्वात् प्रियवसन्तकः प्रियः वसन्तकः तन्नामा विदूषकः यस्य सः साक्षात् एव निजमहोत्सवदर्शनाय निजः आत्मीयः स्वकः आत्मना प्रवर्त्तितत्वात्, यः महोत्सवः कामदेवोत्सवः तस्य दर्शनाय वत्सेश्वरः कुसुमचापः कामदेव इव अभ्युपैति आगच्छति । ( कुसुमचापपक्षे )—विश्रान्ता विग्रहस्य शरीरस्य कथा यस्य कामदेवस्य, तस्य शिवरोषानले भस्मीभूतत्वात् अनङ्गत्वम् । रतिमान् रतिः कामदेवस्य स्त्री विद्यते अस्य इति । जनस्य चित्ते वसन् कामदेवस्य मनोभवत्वात् मनसिजत्वात् इति यावत् । प्रियवसन्तकः प्रियः वसन्तः वसन्तर्तुः यस्य सः ‘शेषाद् विभाषा’ इति समासान्त-कप् । साक्षात् एव शरीरं परिगृह्णन् एव निजमहोत्सवदर्शनाय मदनमहोत्- सवदर्शनाय अभ्युपैति आगच्छति । वसन्ततिलकं वृत्तम् । तल्लक्षणम्—‘ज्ञेयं वसन्ततिलकं तभजा जगौ गः ।’ श्लेषानुप्राणितोपमालङ्कारः । साक्षात् एव इत्यादी उत्प्रेक्षालङ्कारश्च । तयोः संसृष्टिः ॥ ८ ॥ विष्कम्भकः । तल्लक्षणम् दशरूपके—‘‘वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः’’ इत्यादि । Prose. विश्रान्तविग्रहकथः रतिमान् जनस्य चित्ते वसन् प्रियवसन्तकः साक्षात् एव निजमहोत्सवदर्शनाय पर्युत्सुकः वत्सेश्वरः कुसुमचाप इव अभ्युपैति ॥ ८ ॥ Beng. Trans. ( यवनिकामध्ये कोलाहलशब्द ) ( श्रवण করিয়া ) অহো মৃদঙ্গের মৃদুমধুর তাড়নের সহিত অনুগত সঙ্গীত দ্বারা মনোরম চর্চ্চরীধ্বনি ( মিশ্রী- কৃতবাদ্য ) উত্থিত হইতেছে। তাহাতে আমার বিবেচনা হইতেছে যে মদন- মহোৎসবের দ্বারা মহীয়ান্ পৌরজনের আনন্দ দেখিবার জন্য প্রাসাদের দিকে মহারাজ গিয়াছেন। (রাজপক্ষে—বৎসেশ্বর) যুদ্ধাদির কথা নিবৃত্ত হওয়ায় প্রকৃতিপুঞ্জে অনুরাগবান্ হইয়া লোকের চিত্ত আকর্ষণ করতঃ বয়স্য বসন্তকের সহিত নিজের অনুষ্ঠিত মদনোৎসব দেখিবার জন্য উৎসুক হইয়া কামদেবের ন্যায় আসিতেছেন। [ ( মদনপক্ষে ) কামদেব শরীরের কথা ভুলিয়া ( অর্থাৎ অনঙ্গরূপে ) রতিদেবীর সহিত জনগণের চিত্তে বসতি লাভ করতঃ প্রিয় সখা বসন্তঋতুর সহিত যেন সশরীরে নিজের মহোৎসব দর্শন করিবার জন্য উৎসুক হইয়া আগমন করিতেছেন ]। ৮।