ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 116, कुल 249 में से
संदर्भ में पढ़ेंसदाऽखण्डैकरूपोऽस्मि सदामानविवर्जितः । सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२९॥
सदा सन्मानरूपोऽस्मि सदा सत्ताप्रकाशकः । सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥ २२.३०॥
एवं निश्चितवान् मुक्तः एवं नित्यपरो वरः । एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥ २२.३१॥
एवं ब्रह्मोत्थवान् ज्ञानी ब्रह्मोहमिति निश्चयः । स एव पुरुषो लोके ब्रह्मोहमिति निश्चितः ॥ २२.३२॥
स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मवान् । ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥ २२.३३॥
नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः । नाहं मांसं न मेऽस्थीनि नाहङ्कारकलेवरः ॥ २२.३४॥
न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहं । सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥ २२.३५॥
नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहं । न वाच्योऽहं न मुक्तोऽहं न बुद्धोऽहं कदाचन ॥ २२.३६॥
न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहं । सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥ २२.३७॥
न घ्राणोऽहं न गन्धोऽहं न बिहण्योऽयं न मे प्रियः । नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥ २२.३८॥
ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन । न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥ २२.३९॥
नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः । पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥ २२.४०॥
गुह्यं नाहं न चानन्दो न प्रजापतिदेवता । सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ २२.४१॥
नाहं मनो न सङ्कल्पो न चन्द्रो न च साक्षिकः । नाहं बुद्धीन्द्रियो ब्रह्म नाहं निश्चयरूपवान् ॥ २२.४२॥
नाहङ्कारमहं रुद्रो नाभिमानो न साक्षिकः । चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥ २२.४३॥