भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 126, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 126

ब्रह्मैव निश्चयं शून्यं तदुक्तमसमाधिकं । देहाभिमानरहितं तद्वैराग्यसमाधिकं ॥ २४.४४॥

एतद्भावनया शान्तं जीवन्मुक्तसमाधिकः । अत्यन्तं सर्वशान्तत्वं देहो मुक्तसमाधिकं ॥ २४.४५॥

एतदभ्यासिनां प्रोक्तं सर्वं चैतत्त्वमन्वितं । सर्वं विसृत्य विसृत्य त्यक्त्वा त्यक्त्वा पुनः पुनः ॥ २४.४६॥

सर्ववृत्तिं च शून्येन स्थास्यामीति विमुच्य हि । न स्थास्यामीति विसृत्य भास्यामीति च विस्मर ॥ २४.४७॥

चैतन्योऽहमिति त्यक्त्वा सन्मात्रोऽहमिति त्यज । त्यजनं च परित्यज्य भावनं च परित्यज ॥ २४.४८॥

सर्वं त्यक्त्वा मनः क्षिप्रं स्मरणं च परित्यज । स्मरणं किञ्चिदेवात्र महासंसारसागरं ॥ २४.४९॥

स्मरणं किञ्चिदेवात्र महादुःखं भवेत् तदा । महादोषं भवं बन्धं चित्तजन्य शतं मनः ॥ २४.५०॥

प्रारब्धं हृदयग्रन्थि ब्रह्महत्यादि पातकं । स्मरणं चैवमेवेह बन्धमोक्षस्य कारणं ॥ २४.५१॥

अहं ब्रह्मप्रकरणं सर्वदुःखविनाशकं । सर्वप्रपञ्चशमनं सद्यो मोक्षप्रदं सदा । एतच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयं ॥ २४.५२॥

भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः स्वान्तानन्तपथप्रचारविधुरं मुख्यै भवेन्मानसं । सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ कश्चित् स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥ २४.५३॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विंशोऽध्यायः ॥