भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 151, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 151

॥ एकत्रिंशोऽध्यायः ॥

ऋभुः –

वक्ष्ये रहस्यमत्यन्तं साक्षाद्ब्रह्मप्रकाशकम् । सर्वोपनिषदामर्थं सर्वलोकेषु दुर्लभम् ॥ 31.1॥

प्रज्ञानं ब्रह्म निश्चित्य पदद्वयसमन्वितम् । महावाक्यं चतुर्वाक्यं ऋग्यजुःसामसंभवम् ॥ 31.2॥

मम प्रज्ञैव ब्रह्माहं ज्ञानमात्रमिदं जगत् । ज्ञानमेव जगत् सर्वं ज्ञानादन्यन्न विद्यते ॥ 31.3॥

ज्ञानस्यानन्तरं सर्वं दृश्यते ज्ञानरूपतः । ज्ञानस्य ब्रह्मणश्चापि ममैव पृथज् न हि ॥ 31.4॥

जीवः प्रज्ञानशब्दस्य ब्रह्मशब्दस्य चेश्वरः । ऐक्यमस्मीत्यखण्डार्थमखण्डैकरसं ततम् ॥ 31.5॥

अखण्डाकारवृत्तिस्तु जीवन्मुक्तिरितीरितम् । अखण्डैकरसं वस्तु विदेहो मुक्तिरुच्यते ॥ 31.6॥

ब्रह्मैवाहं न संसारी सच्चिदानन्दमस्म्यहम् । निर्गुणोऽहं निरंशोऽहं परमानन्दवानहम् ॥ 31.7॥

नित्योऽहं निर्विकल्पोऽहं चिदहं चिदहं सदा । अखण्डाकारवृत्त्याख्यं चित्तं ब्रह्मात्मना स्थितम् ॥ 31.8॥

लवणं तोयमात्रेण यदैकत्वमखण्डितम् । अखण्डैकरसं वक्ष्ये विदेहो मुक्तिलक्षणम् ॥ 31.9॥

प्रज्ञापदं परित्यज्य ब्रह्मैव पदमेव हि । अहमस्मि महानस्मि सिद्धोऽस्मीति परित्यजन् ॥ 31.10॥

स्मरणं च परित्यज्य भावनं चित्तकर्मकम् । सर्वमन्तः परित्यज्य सर्वशून्यं परिस्थितिः ॥ 31.11॥

तूष्णीं स्थितिं च संत्यज्य ततो मानविकल्पनम् । यत्तच्चित्तं विकल्पांशं मनसा कल्पितं जगत् ॥ 31.12॥

देहोऽहमित्यहंकारं द्वैतवृत्तिरितीरितम् । सर्वं साक्ष्यहं ब्रह्म इत्येवं दृढनिश्चयम् ॥ 31.13॥