ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 198, कुल 249 में से
संदर्भ में पढ़ें॥ चतुश्चत्वारिंशोऽध्यायः ॥
निदाघः –
शृणुष्व सद्गुरो ब्रह्मन् त्वत्प्रसादान्विनिश्चितम् ।
अहमेव हि तद्ब्रह्म अहमेव हि केवलम् ॥ ४४.१॥
अहमेव हि नित्यात्मा अहमेव सदाऽजरः ।
अहमेव हि शान्तात्मा अहमेव हि निश्चलः ॥ ४४.२॥
अहमेव हि निश्चिन्तः अहमेव सुखात्मकः ।
अहमेव गुरुस्त्वञ्च अहं शिष्योऽस्मि केवलम् ॥ ४४.३॥
अहमानन्द एवात्मा अहमेव निरञ्जनः ।
अहं तुर्यातीगो ह्यात्मा अहमेव गुणोज्झितः ॥ ४४.४॥
अहं विदेह एवात्मा अहमेव हि शङ्करः ।
अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥ ४४.५॥
अहमेव हि लक्ष्यात्मा अहमेव मनोमयः ।
अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥ ४४.६॥
अहं विष्णुरहं ब्रह्मो अहमिन्द्रस्त्वहं सुराः ।
अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥ ४४.७॥
अहं समुद्राः सरित अहमेव हि पर्वताः ।
अहं वनानि भुवनं अहमेवेदमेव हि ॥ ४४.८॥
नित्यतृप्तो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः ।
अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥ ४४.९॥
अहमेव महानात्मा सर्वमङ्गलविग्रहः ।
अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥ ४४.१०॥
अहं भूमिरहं वायुरहं तेजो ह्यहं नभः ।
अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥ ४४.११॥
अहं लोका अलोकाश्च अहं लोक्या अहं सदा ।
अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥ ४४.१२॥
अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् ।
शुभाशुभफलातीतो ह्याहमेव हि केवलम् ॥ ४४.१३॥