ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 205, कुल 249 में से
संदर्भ में पढ़ें॥ సప్తచత్వారింశోఽధ్యాయః ॥ -> ॥ सप्तचत्वारिंशोऽध्यायः ॥
ऋभुः -
निदाघ शृणु वक्ष्यामि दृढीकरणमस्तु ते ।
शिवप्रसादपर्यन्तमेवं भावय नित्यशः ॥ 47.1 ॥
अहमेव परं ब्रह्म अहमेव सदाशिवः ।
अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥ 47.2 ॥
अहमेव हि चैतन्यमहमेव हि निष्कलः ।
अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥ 47.3 ॥
अहमेव हि सर्वात्मा अहमेव हि चिन्मयः ।
अहमेव परं ब्रह्म अहमेव महेश्वरः ॥ 47.4 ॥
अहमेव जगत्साक्षी अहमेव हि सद्गुरुः ।
अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥ 47.5 ॥
अहमेवाहमेवोक्तः अहमेव हि शंकरः ।
अहमेव हि महाविष्णुरहमेव चतुर्मुखः ॥ 47.6 ॥
अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा ।
अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥ 47.7 ॥
अहमेव मनोरूपं अहमेव हि शीतलः ।
अहमेवान्तर्यामी च अहमेव परेश्वरः ॥ 47.8 ॥
एवमुक्तप्रकारेण भावयित्वा सदा स्वयं ।
द्रव्योऽस्ति चेन्न कुर्यात्तु वंचकेन गुरुं परं ॥ 47.9 ॥
कुंभीपाके सुघोरे तु तिष्ठत्येव हि कल्पकान् ।
श्रुत्वा निदाघश्शीघ्राय पुत्रदारान् प्रदत्तवान् ॥ 47.10 ॥
स्वशरीरं च पुत्रत्वे दत्त्वा सादरपूर्वकं ।
धनधान्यं च वस्त्रादीन् दत्त्वोऽतिष्ठत् समीपतः ॥ 47.11 ॥
गुरोस्तु दक्षिणं दत्वा निदाघुस्तुष्टवानृभुं ।
संतुष्टोऽस्मि महाभाग तव शुश्रूषया सदा ॥ 47.12 ॥
ब्रह्मविज्ञानमाप्तोऽसि सुकृतार्थो न संशयः ।
ब्रह्मरूपमिदं चेति निश्चयं कुरु सर्वदा ॥ 47.13 ॥