ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 238, कुल 249 में से
संदर्भ में पढ़ेंन सूतकं न जातं वा नान्तर्मुखसुविभ्रमः ।
न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ ३.३० ॥
एवं सलक्षणं ब्रह्म व्यतिरेकमुखेन वै ।
निदाघ त्वं विजानीहि ब्रह्मेतरनिषेधतः ॥ ३.३१ ॥
ब्रह्मणः प्रकृतस्यात्र द्विविधं प्रतिपादनम् ।
असन्निषेधरूपं सद्विधिरूपं च तत्र तु ॥ ३.३२ ॥
आत्मा निषेधरूपेण तुभ्यं सम्प्रतिपादितः ।
अथाद्य विधिरूपेण शृणु सम्प्रतिपाद्यते ॥ ३.३३ ॥
सर्वं चैतन्यमात्रत्वात्सर्वदोषस्सदा नहि ।
सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दरूपकम् ॥ ३.३४ ॥
ब्रह्मैव सर्वं नान्योऽस्मि तदहं तदहं तथा ।
तदेवाहम तदेवाहम ब्रह्मैवाहं सनातनम् ॥ ३.३५ ॥
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।
ब्रह्मैवाहं न मे सिद्धिर्ब्रह्मैवाहं न चेन्द्रियम् ॥ ३.३६ ॥
ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः ।
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः ॥ ३.३७ ॥
ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः ।
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम् ॥ ३.३८ ॥
इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः ।
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३.३९ ॥
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् ।
दोषो ब्रह्म गुणो ब्रह्म दिशश्शान्तर्विभुः प्रभुः ॥ ३.४० ॥
लोका ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः ।
पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३.४१ ॥
जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् ।
सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३.४२ ॥
स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन ।
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमव्ययम् ॥ ३.४३ ॥
नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।
अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ३.४४ ॥