ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 44, कुल 249 में से
संदर्भ में पढ़ेंअरिषड्वर्गमुक्तोऽस्मि अंतरादंतरोऽस्म्यहं ।
देशकालविहीनोऽस्मि दिगंबरमुखोऽस्म्यहं ॥ 7.44॥
नास्ति होस्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहं ।
सर्वचिन्मात्ररूपोऽस्मि सच्चिदानंदमस्म्यहं ॥ 7.45॥
अखंडाकाररूपोऽस्मि अखंडाकारमस्म्यहं ।
प्रपंचचित्ररूपोऽस्मि प्रपंचरहितोऽस्म्यहं ॥ 7.46॥
सर्वप्रकाररूपोऽस्मि सद्भावावर्जितोऽस्म्यहं ।
कालत्रयविहीनोऽस्मि कामादिरहितोऽस्म्यहं ॥ 7.47॥
कायकायिविमुक्तोऽस्मि निर्गुणप्रभवोऽस्म्यहं ।
मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ 7.48॥
सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहं ।
गंतव्यदेशहीनोऽस्मि गमनारहितोऽस्म्यहं ॥ 7.49॥
सर्वदा स्वरूपोऽस्मि शांतोऽस्मि सुहितोऽस्म्यहं ।
एवं स्वानुभवं प्रोक्तं एतत् प्रकरणं महत् ॥ 7.50॥
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ।
पिंडांडसंभवजगद्गतखंडनोद्य-
द्वेतंडशुंडनिभपीवरबाहुदंड ।
ब्रह्मोुरुमुंडकलितांडजवाहबाण
कोदंडभूधरधरं भजतामखंडं ॥ 7.51॥
विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे
नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवंत्यात्मभावं ।
अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः
तांताः शांतिविवर्जिता विषयिणो दुःखं भजंत्यन्वहं ॥ 7.52॥
॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्वात्मनिरूपणं नाम सप्तमोऽध्यायः ॥