भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 55, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 55

हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्त्यहम् । केवलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥ ९.४४॥

स्वयमेव स्वयंभास्यं स्वयमेव हि नान्यतः । स्वयमेवात्मनि स्वस्थः इत्येवं मन्त्रमुत्तमम् ॥ ९.४५॥

स्वयमेव स्वयं भुङ्क्ष्व स्वयमेव स्वयं रमे । स्वयमेव स्वयंज्योतिः स्वयमेव स्वयं रमे ॥ ९.४६॥

स्वात्मनि स्वयं रंस्ये स्वात्मन्येवावलोकये । स्वात्मन्येव सुखेनासि इत्येवं मन्त्रमुत्तमम् ॥ ९.४७॥

स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखं रमे । स्वात्मसिंहासने तिष्ठे इत्येवं मन्त्रमुत्तमम् ॥ ९.४८॥

स्वात्ममन्त्रं सदा पश्यन् स्वात्मज्ञानं सदाऽभ्यसन् । अहं ब्रह्मास्म्यहं मन्त्रः स्वात्मपापं विनाशयेत् ॥ ९.४९॥

अहं ब्रह्मास्म्यहं मन्त्रो द्वैतदोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो भेददुःखं विनाशयेत् ॥ ९.५०॥

अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तारोगं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो बुद्धिव्याधिं विनाशयेत् ॥ ९.५१॥

अहं ब्रह्मास्म्यहं मन्त्र आधिव्याधिं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः सर्वलोकं विनाशयेत् ॥ ९.५२॥

अहं ब्रह्मास्म्यहं मन्त्रः कामदोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः क्रोधदोषं विनाशयेत् ॥ ९.५३॥

अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तादोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः सङ्कल्पं च विनाशयेत् ॥ ९.५४॥

अहं ब्रह्मास्म्यहं मन्त्रः इदं दुःखं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः अविवेकमलं दहेत् ॥ ९.५५॥

अहं ब्रह्मास्म्यहं मन्त्रः अज्ञानध्वंसमाचरेत् । अहं ब्रह्मास्म्यहं मन्त्रः कोटिदोषं विनाशयेत् ॥ ९.५६॥

अहं ब्रह्मास्म्यहं मन्त्रः सर्वतन्त्रं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो देहदोषं विनाशयेत् ॥ ९.५७॥

अहं ब्रह्मास्म्यहं मन्त्रः दृष्टादृष्टं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्र आत्मज्ञानप्रकाशकम् ॥ ९.५८॥