भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 57, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 57

॥ दशमोऽध्यायः ॥

ऋभुः –

नित्यतर्पणमाचक्ष्ये निदाघ शृणु मे वचः ।
वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ १०.१॥

सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि ।
ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ १०.२॥

स्वरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् ।
आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.३॥

सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् ।
नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.४॥

अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा ।
आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.५॥

एकत्वसंख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः ।
नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.६॥

आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् ।
सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.७॥

परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् ।
सत्तामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ १०.८॥

यत् किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् ।
शुद्धमोक्षस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.९॥

सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
विज्ञानमात्ररूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१०॥

ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे ।
तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ १०.११॥

त्वमित्येतत् तदित्येतन्नास्ति नास्तीह किञ्चन ।
शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१२॥

अत्यन्ताभावरूपोऽहमहमेव परात्परः ।
अहमेव सुखं नान्यत् इत्येवं ब्रह्मतर्पणम् ॥ १०.१३॥