ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 79, कुल 249 में से
संदर्भ में पढ़ेंअसदेवाहमेवास्मि असदेव त्वमेव हि । असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ 14.29॥
असदेव मही सर्वा असदेव जलं सदा । असदेव जगत्थानि असदेव च तेजकम् ॥ 14.30॥
असदेव सदा वायुरसदेवदमित्यपि । अहंकारमसद्बुद्धिर्ब्ह्येव जगतां गणः ॥ 14.31॥
असदेव सदा चित्तमात्मैवेदं न संशयः । असदेवासुराः सर्वे असदेवेश्वराकृतिः ॥ 14.32॥
असदेव सदा विश्वं असदेव सदा हरिः । असदेव सदा ब्रह्मो तत्सृष्टिरसदेव हि ॥ 14.33॥
असदेव महादेवः असदेव गणेश्वरः । असदेव सदा चोमा असत् स्कन्दो गणेश्वराः ॥ 14.34॥
असदेव सदा जीव असदेव हि देहकं । असदेव सदा वेदा असद्वेदान्तमेव च ॥ 14.35॥
धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः । असदेव हि सर्वं च असदेव परंपरा ॥ 14.36॥
असदेवेदमाद्यन्तमसदेव मुनीश्वराः । असदेव सदा लोका लोक्या अप्यसदेव हि ॥ 14.37॥
असदेव सुखं दुःखं असदेव जयाजयौ । असदेव परं बन्धमसन्मुक्तिरपि ध्रुवं ॥ 14.38॥
असदेव मृतिर्जन्म असदेव जडाजडं । असदेव जगत् सर्वमसदेवात्मभावना ॥ 14.39॥
असदेव च रूपाणि असदेव पदं शुभं । असदेव सदा चाहमसदेव त्वमेव हि ॥ 14.40॥
असदेव हि सर्वत्र असदेव चलाचलं । असच्च सकलं भूतमसत्यं सकलं फलं ॥ 14.41॥
असत्यमखिलं विश्वमसत्यमखिलो गुणः । असत्यमखिलं शेषमसत्यमखिलं जगत् ॥ 14.42॥
असत्यमखिलं पापं असत्यं श्रवणत्रयं । असत्यं च सजातीयविजातीयमसत् सदा ॥ 14.43॥