ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 8, कुल 249 में से
संदर्भ में पढ़ेंउमारमण शंकर त्रिदशवन्द्य वेदेद्य हृत् त्वदीयपरभावतो मम सदैव निर्वाणकृत् । भवार्णवनिवासिनां किमु भवत्पदाम्भोरुह- प्रभावभजनादरं भवति मानसं मुक्तिदम् ॥ १.१८॥
संसारार्गलपादबद्धजनतासंमोचनं भर्ग ते पादद्वन्द्वमुपासनाथ भजतां संसारसंभर्जकम् । त्वन्नामोत्तमगर्जनादघकुलं संतर्जितं वै भवेद् दुःखानां परिमार्जकं तवकृपावीक्षावतां जायते ॥ १.१९॥
विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण पाहि क्षमारधविकर्षणवेदवाजिहेशान्तहर्षितपदाम्बुज विश्वनाथ ॥ १.२०॥
विभूतीनामन्तो न हि खलु भवानीरमण ते भवे भावं कश्चित् त्वयि भवह भाग्येन लभते । अभावं चाज्ञानं भवति जननाद्यैश्च रहितः उमाकान्त स्वान्ते भवदभयपादं कलयतः ॥ १.२१॥
वरं शम्भो भावैर्भवभजनभावेन नितरां भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः । विमुक्तिं भुक्तिं च श्रुतिकथितभास्याक्षवरद्यक् भवे भर्तुः सर्व्यो भवति च सदानन्दमधुरः ॥ १.२२॥
सोमसामजसुकुत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद । सौमिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥ १.२३॥
भस्माङ्गराग भुजगाङ्ग महोक्षसङ्ग गङ्गाम्बुसङ्ग सुजटा निटिल स्फुलिङ्ग । लिङ्गाङ्ग भङ्गितमनङ्ग विहङ्गवाह- सम्पूज्यपाद सदसङ्ग जनान्तरङ्ग ॥ १.२४॥
वात्सल्यं मयि तादृशं तवनचेच्चन्द्रार्ध चूडामणे धिक्कृत्यार्पि विमुच्य वा त्वयि यतो धन्यो धरण्यामहम् । सक्षारं लवणार्णवस्य सलिलं धारा धरेण क्षणात् आदायोज्जितमुक्तितो हि जगतां आस्वादनीयं दृशां ॥ १.२५॥
त्वत् कैलासवरे विशोकहृदयाः क्रोधोज्झिताश्चाण्डजाः तस्मान्नानुपि भेदबुद्धिरहितं कुर्वीश तेऽनुग्रहात् । त्वद्भक्तामल निर्जरोज्झित महोसंसार संतापहं विज्ञानं करुणाऽदिशाद्य भगवन् लोकावनाय प्रभो ॥ १.२६॥