ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 82, कुल 249 में से
संदर्भ में पढ़ें॥ पञ्चदशोऽध्यायः ॥
ऋभुः –
महारहस्यं वक्ष्यामि गुह्यात् गुह्यतरं पुनः ।
अत्यन्तदुर्लभं लोके सर्वं ब्रह्मैव केवलं ॥ 15.1॥
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ।
ब्रह्ममात्रं श्रुतं सर्वं सर्वं ब्रह्मैव केवलं ॥ 15.2॥
ब्रह्ममात्रं महायन्त्रं ब्रह्ममात्रं क्रियाफलं ।
ब्रह्ममात्रं महावाक्यं सर्वं ब्रह्मैव केवलं ॥ 15.3॥
ब्रह्ममात्रं जगत्सर्वं ब्रह्ममात्रं जडाजडं ।
ब्रह्ममात्रं परं देहं सर्वं ब्रह्मैव केवलं ॥ 15.4॥
ब्रह्ममात्रं गुणं प्रोक्तं ब्रह्ममात्रमहं महत् ।
ब्रह्ममात्रं परं ब्रह्म सर्वं ब्रह्मैव केवलं ॥ 15.5॥
ब्रह्ममात्रमिदं वस्तु ब्रह्ममात्रं स च पुमान् ।
ब्रह्ममात्रं च यत् किञ्चित् सर्वं ब्रह्मैव केवलं ॥ 15.6॥
ब्रह्ममात्रमनन्तात्मा ब्रह्ममात्रं परं सुखं ।
ब्रह्ममात्रं परं ज्ञानं सर्वं ब्रह्मैव केवलं ॥ 15.7॥
ब्रह्ममात्रं परं पारं ब्रह्ममात्रं पुरत्रयं ।
ब्रह्ममात्रमनेकत्वं सर्वं ब्रह्मैव केवलं ॥ 15.8॥
ब्रह्मैव केवलं गन्धं ब्रह्मैव परमं पदं ।
ब्रह्मैव केवलं घ्राणं सर्वं ब्रह्मैव केवलं ॥ 15.9॥
ब्रह्मैव केवलं स्पर्शं शब्दं ब्रह्मैव केवलं ।
ब्रह्मैव केवलं रूपं सर्वं ब्रह्मैव केवलं ॥ 15.10॥
ब्रह्मैव केवलं लोकं रसो ब्रह्मैव केवलं ।
ब्रह्मैव केवलं चित्तं सर्वं ब्रह्मैव केवलं ॥ 15.11॥
तत्पदं च सदा ब्रह्म त्वं पदं ब्रह्म एव हि ।
असीत्येव पदं ब्रह्म ब्रह्मैक्यं केवलं सदा ॥ 15.12॥
ब्रह्मैव केवलं गुह्यं ब्रह्म बाह्यं च केवलं ।
ब्रह्मैव केवलं नित्यं सर्वं ब्रह्मैव केवलं ॥ 15.13॥