ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 84, कुल 249 में से
संदर्भ में पढ़ेंब्रह्मैव लोकवद्भाति ब्रह्मैव जनवत्तथा ।
ब्रह्मैव रूपवद्भाति वस्तुतो नास्ति किंचन ॥ १५.२९॥
ब्रह्मैव देवताकारं ब्रह्मैव मुनिमण्डलं ।
ब्रह्मैव ध्यानरूपं च सर्वं ब्रह्मैव केवलम् ॥ १५.३०॥
ब्रह्मैव ज्ञानविज्ञानं ब्रह्मैव परमेश्वरः ।
ब्रह्मैव शुद्धबुद्धात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३१॥
ब्रह्मैव परमानन्दं ब्रह्मैव व्यापकं महत् ।
ब्रह्मैव परमार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५.३२॥
ब्रह्मैव यज्ञरूपं च ब्रह्मा हव्यं च केवलम् ।
ब्रह्मैव जीवभूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३३॥
ब्रह्मैव सकलं लोकं ब्रह्मैव गुरुशिष्यकम् ।
ब्रह्मैव सर्वसिद्धिं च सर्वं ब्रह्मैव केवलम् ॥ १५.३४॥
ब्रह्मैव सर्वमन्त्रं च ब्रह्मैव सकलं जपम् ।
ब्रह्मैव सर्वकार्यं च सर्वं ब्रह्मैव केवलम् ॥ १५.३५॥
ब्रह्मैव सर्वशान्तत्वं ब्रह्मैव हृदयान्तरम् ।
ब्रह्मैव सर्वकैवल्यं सर्वं ब्रह्मैव केवलम् ॥ १५.३६॥
ब्रह्मैवाक्षरभावं च ब्रह्मैवाक्षरलक्षणम् ।
ब्रह्मैव ब्रह्मरूपं च सर्वं ब्रह्मैव केवलम् ॥ १५.३७॥
ब्रह्मैव सत्यभवनं ब्रह्मैवाहं न संशयः ।
ब्रह्मैव तत्त्वदार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५.३८॥
ब्रह्मैवाहं पदार्थं च ब्रह्मैव परमेश्वरः ।
ब्रह्मैव त्वंपदार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५.३९॥
ब्रह्मैव यद्भात् परमं ब्रह्मैवेति परायणम् ।
ब्रह्मैव कलनाभावं सर्वं ब्रह्मैव केवलम् ॥ १५.४०॥
ब्रह्म सर्वं न सन्देहो ब्रह्मैव त्वं सदाशिवः ।
ब्रह्मैवेदं जगत् सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.४१॥
ब्रह्मैव सर्वसुलभं ब्रह्मैवात्मा स्वयं स्वयं ।
ब्रह्मैव सुखमात्रत्वात् सर्वं ब्रह्मैव केवलम् ॥ १५.४२॥
ब्रह्मैव सर्वं ब्रह्मैव ब्रह्मणोऽन्यदसत् सदा ।
ब्रह्मैव ब्रह्ममात्रात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.४३॥