ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
॥ चतुस्त्रिंशोऽध्यायः ॥
ऋभुः -
शृणुष्व ब्रह्म विज्ञानमद्भुतं त्वतिदुर्लभम् । एकैकश्रवणेनैव कैवल्यं परमश्नुते ॥ ३४.१॥
सत्यं सत्यं जगन्नास्ति संकल्पकलनादिकम् । नित्यानन्दमयं ब्रह्मविज्ञानं सर्वदा स्वयं ॥ ३४.२॥
आनन्दमव्ययं शान्तमेकरूपमनामयम् । चित्प्रपञ्चं नैवास्ति नास्ति कार्यं च तत्त्वतः ॥ ३४.३॥
प्रपञ्चभावना नास्ति दृश्यरूपं न किञ्चन । असत्यरूपं सङ्कल्पं तत्कार्यं च जगन्न हि ॥ ३४.४॥
सर्वमित्येव नास्त्येव कालमित्येवमीश्वरः । वन्ध्याकुमारे भीतिश्च तदधीनमिदं जगत् ॥ ३४.५॥
गन्धर्वनगरे शृङ्गे मदग्रे दृश्यते जगत् । मृगतृष्णाजलं पीत्वा तृप्तिश्चेदस्तिदं जगत् ॥ ३४.६॥
नगे शृङ्गे न बाणेन नष्टं पुरुषमस्तिदम् । गन्धर्वनगरे सत्ये जगद्भवतु सर्वदा ॥ ३४.७॥
गगने नीलमासिन्धौ जगत् सत्यं भविष्यति । शुक्तिकारजतं सत्यं भूषणं चिज्जगद्भवेत् ॥ ३४.८॥
रज्जुसर्पेण नष्टश्चेत् नरो भवति संसृतिः । जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति ॥ ३४.९॥
रम्भास्तम्भेन काष्ठेन पाकसिद्धिर्जगद्भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयं ॥ ३४.१०॥
सद्यः कुमारिकारूपैः पाके सिद्धे जगद्भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयं ॥ ३४.११॥
मित्याटव्यां वायसान्नं अस्ति चेज्जगदुद्भवम् । मूला रोपणमन्त्रस्य प्रीतिश्चेद्भाषणं जगत् ॥ ३४.१२॥
मासात् पूर्वं मृतो मर्त्य आगतश्चेज्जगद् भवेत् । तक्रं क्षीरस्वरूपं चेत् किञ्चित् किञ्चिज्जगद्भवेत् ॥ ३४.१३॥
गोस्तनादुद्भवं क्षीरं पुनरारोहणं जगत् ।
भूरजस्त्वाब्जमुत्पन्नं जगद्भवतु सर्वदा ॥ ३४.१४॥
कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे ।
मृणालतंतुना मेरुश्चलितश्चेज्जगद् भवेत् ॥ ३४.१५॥
तरंगमालया सिंधुः बद्धश्चेदस्तिदं जगत् ।
ज्वालाग्निमण्डले पद्मं वृद्धं चेत् तज्जगद्भवेत् ॥ ३४.१६॥
महाच्छैलेन्द्रनिलयं संभवश्चेदिदं भवेत् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयं ॥ ३४.१७॥
मीन आगत्य पद्माक्षे स्थितश्चेदस्तिदं जगत् ।
निगीर्णश्चेद्भंगसूनुः मेरुपुच्छवदस्तिदं ॥ ३४.१८॥
मशकेनाशिते सिंहे हते भवतु कल्पनं ।
अणुकोटरविस्तीर्णे त्रैलोक्ये चेज्जगद्भवेत् ॥ ३४.१९॥
स्वप्ने तिष्ठति यद्वस्तु जागरे चेज्जगद्भवेत् ।
नदीवेगो निश्चलश्चेत् जगद्भवतु सर्वदा ॥ ३४.२०॥
जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगद्भवेत् ।
चन्द्रसूर्यादिकं त्यक्त्वा राहुश्चेत् दृश्यते जगत् ॥ ३४.२१॥
भ्रष्टबीजेन उत्पन्ने वृद्धिश्चेच्चित्तसंभवः ।
महोदरिदैराढ्यानां सुखे ज्ञाते जगद्भवेत् ॥ ३४.२२॥
दुग्धं दुग्धगतक्षीरं पुनरारोहणं पुनः ।
केवलं दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ३४.२३॥
यथा शून्यगतं व्योम प्रतिबिम्बेन वै जगत् ।
अजकुक्षौ गजो नास्ति आत्मकुक्षौ जगन्न हि ॥ ३४.२४॥
यथा तान्त्रे समुत्पन्ने तथा ब्रह्ममयं जगत् ।
कार्पासकेऽग्निदग्धेन भस्म नास्ति तथा जगत् ॥ ३४.२५॥
परं ब्रह्म परं ज्योतिः परस्तात् परतः परः ।
सर्वदा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ३४.२६॥
चित्तवृत्तिर्जगद्दुःखं अस्ति चेत् किल नाशनं ।
मनःसंकल्पकं बन्ध अस्ति चेद्ब्रह्मभावना ॥ ३४.२७॥
अविद्या कार्यदेहादि अस्ति चेद्द्वैतभावनं ।
चित्तमेव महारोगो व्याप्तश्चेद्ब्रह्मभेषजं ॥ ३४.२८॥
अहं शत्रुर्यदि भवेदहं ब्रह्मैव भावनम् ।
देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चिनु ॥ ३४.२९॥
संशयश्च पिशाचश्चेद्ध्यामात्रेण नाशय ।
द्वैतभूताविष्टरेण अद्वैतं भस्म आश्रय ॥ ३४.३०॥
अनात्मत्वपिशाचश्चेदात्ममन्त्रेण बन्धय ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयं ॥ ३४.३१॥
चतुःषष्टिकदृष्टान्तैरेवं ब्रह्मैव साधितम् ।
यः शृणोति नरो नित्यं स मुक्तो नात्र संशयः ॥ ३४.३२॥
कृतार्थ एव सततं नात्र कार्या विचारणा ॥ ३४.३३॥
मनोवचोविदूरगं त्वरूपगन्धवर्जितम्
हृदर्भाकोकसन्ततं विजानतां मुदे सदा ।
सदाप्रकाशदुज्ज्वलप्रभाविकाससद्युति
प्रकाशदं महेश्वर त्वदीयपादपङ्कजम् ॥ ३४.३४॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे दृष्टान्तैर्ब्रह्मसाधनप्रकरणं नाम चतुस्त्रिंशोऽध्यायः ॥
॥ पञ्चत्रिंशोऽध्यायः ॥
ऋभुः –
निदाघ शृणु गुह्यं मे सद्यो मुक्तिप्रदं नृणाम् । आत्मैव नान्यदेवेदं परमात्माहमक्षतः ॥ ३५.१॥
अहमेव परं ब्रह्म सच्चिदानन्दविग्रहः । अहमस्मि महानस्मि शिवोऽस्मि परमोऽस्म्यहम् ॥ ३५.२॥
अदृश्यं परमं ब्रह्म नान्यदस्ति स्वभावतः । सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.३॥
शान्तं ब्रह्म परं चास्मि सर्वदा नित्यनिर्मलः । सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.४॥
सर्वसङ्कल्पमुक्तोऽस्मि सर्वसन्तोषवर्जितः । कालकर्मजगद्द्वैतद्रष्टृदर्शनविग्रहः ॥ ३५.५॥
आनन्दोऽस्मि सदानन्दकेवलो जगतां प्रियम् । समरूपोऽस्मि नित्योऽस्मि भूतभव्यमजो जयः ॥ ३५.६॥
चिन्मात्रोऽस्मि सदा भुक्तो जीवो बन्धो न विद्यते । श्रवणं षड्विधं लिङ्गं नैवास्ति जगदीदृशम् ॥ ३५.७॥
चित्तसंसारहीनोऽस्मि चिन्मात्रत्वं जगत् सदा । चित्तमेव हितं देह अविचारः परो रिपुः ॥ ३५.८॥
अविचारो जगद्दुःखमविचारो महद्भयम् । सद्योऽस्मि सर्वदा तृप्तः परिपूर्णः परो महान् ॥ ३५.९॥
नित्यशुद्धोऽस्मि बुद्धोऽस्मि चिदाकाशोऽस्मि चेतनः । आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.१०॥
सर्वदोषविहीनोऽस्मि सर्वत्र विततोऽस्म्यहम् । वाचातीतस्वरूपोऽस्मि परमात्माऽहमक्षतः ॥ ३५.११॥
चित्रातीतं परं द्वन्द्वं सन्तोषः समभावनम् । अन्तर्बहिरनाद्यन्तं सर्वभेदविनिर्णयम् ॥ ३५.१२॥
अहङ्कारं बलं सर्वं कामं क्रोधं परिग्रहम् । ब्रह्मेन्द्रोविष्णुर्वरुणो भावाभावविनिश्चयः ॥ ३५.१३॥
जीवसत्ता जगत्सत्ता मायासत्ता न किंचन ।
गुरुशिष्यादिभेदं च कार्याकार्यविनिश्चयः ॥ ३५.१४॥
त्वं ब्रह्मासीति वक्ता च अहं ब्रह्मास्मि संभवः ।
सर्ववेदान्तविज्ञानं सर्वाम्नायविचारणं ॥ ३५.१५॥
इदं पदार्थसद्भावमहं रूपेण संभवं ।
वेदवेदान्तसिद्धान्तजगद्भेदं न विद्यते ॥ ३५.१६॥
सर्वं ब्रह्म न संदेहः सर्वमित्येव नास्ति हि ।
केवलं ब्रह्मशान्तात्मा अहमेव निरन्तरं ॥ ३५.१७॥
शुभाशुभविभेदं च दोषादोषं च मे न हि ।
चित्तसत्ता जगत्सत्ता बुद्धिवृत्तिविजृंभणं ॥ ३५.१८॥
ब्रह्मैव सर्वदा नान्यत् सत्यं सत्यं निजं पदं ।
आत्माकारमिदं द्वैतं मिथ्यैव न परः पुमान् ॥ ३५.१९॥
सच्चिदानन्दमात्रोऽहं सर्वं केवलमव्ययं ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ३५.२०॥
मनो जगदहं भेदं चित्तवृत्तिजगद्द्वयं ।
सर्वानन्दमहानन्दमात्मानन्दमनन्तकं ॥ ३५.२१॥
अत्यन्तस्वल्पमल्पं वा प्रपञ्चं नास्ति किंचन ।
प्रपञ्चमिति शब्दो वा स्मरणं वा न विद्यते ॥ ३५.२२॥
अन्तरस्थप्रपञ्चं वा क्वचिन्नास्ति क्वचिद्द्वहिः ।
यत् किंचिदेवं तूष्णीं वा यच्च किंचित् सदा क्व वा ॥ ३५.२३॥
येन केन यदा किंचिद्यस्य कस्य न किंचन ।
शुद्धं मलिनरूपं वा ब्रह्मवाक्यमबोधकं ॥ ३५.२४॥
ईदृशं तादृशं वेति न किंचित् वक्तुमर्हति ।
ब्रह्मैव सर्वं सततं ब्रह्मैव सकलं मनः ॥ ३५.२५॥
आनन्दं परमानन्दं नित्यानन्दं सदाऽद्वयं ।
चिन्मात्रमेव सततं नास्ति नास्ति परोऽस्म्यहं ॥ ३५.२६॥
प्रपञ्चं सर्वदा नास्ति प्रपञ्चं चित्रमेव च ।
चित्तमेव हि संसारं नान्यत् संसारमेव हि ॥ ३५.२७॥
मन एव हि संसारो देहोऽहमिति रूपकं ।
संकल्पमेव संसारं तन्नाशेऽसा विनश्यति ॥ ३५.२८॥
संकल्पमेव जननं तन्नाशेऽसा विनश्यति ।
संकल्पमेव दारिद्र्यं तन्नाशेऽसा विनश्यति ॥ ३५.२९॥
संकल्पमेव मननं तन्नाशेऽसा विनश्यति ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३०॥
नित्यमात्ममयं बोधमहमेव सदा महान् ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३१॥
इत्येवं भावयेन्नित्यं क्षिप्रं मुक्तो भविष्यति ।
त्वमेव ब्रह्मरूपोऽसि त्वमेव ब्रह्मविग्रहः ॥ ३५.३२॥
एवं च परमानन्दं ध्यात्वा ध्यात्वा सुखीभव ।
सुखमात्रं जगत् सर्वं प्रियमात्रं प्रपञ्चकम् ॥ ३५.३३॥
जडमात्रमयं लोकं ब्रह्ममात्रमयं सदा ।
ब्रह्मैव नान्यदेवेदं परमात्माऽहमव्ययः ॥ ३५.३४॥
एक एव सदा एष एक एव निरन्तरम् ।
एक एव परं ब्रह्म एक एव चिदव्ययः ॥ ३५.३५॥
एक एव गुणातीत एक एव सुखावहः ।
एक एव महानात्मा एक एव निरन्तरम् ॥ ३५.३६॥
एक एव चिदाकार एक एवात्मनिर्णयः ।
ब्रह्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३७॥
परमात्माऽहमन्यन्न परमानन्दमन्दिरम् ।
इत्येवं भावयन्नित्यं सदा चिन्मय एव हि ॥ ३५.३८॥
सूतः –
विरिञ्चवञ्चनाततप्रपञ्चपञ्चबाणभित्
सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे ।
अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तके
विमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥ ३५.३९॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः ॥
॥ षट्त्रिंशोऽध्यायः ॥
ऋभुः -
शृणु वक्ष्यामि विप्रेन्द्र सर्वं ब्रह्मैव निर्णयम् ।
यस्य श्रवणमात्रेण सद्यो मुक्तिमवाप्नुयात् ॥ ३६.१॥
इदमेव सदा नास्ति ह्यहमेव हि केवलम् ।
आत्मैव सर्वदा नास्ति आत्मैव सुखलक्षणम् ॥ ३६.२॥
आत्मैव परमं तत्त्वमात्मैव जगतां गणः ।
आत्मैव गगनाकारमात्मैव च निरन्तरम् ॥ ३६.३॥
आत्मैव सत्यं ब्रह्मैव आत्मैव गुरुलक्षणम् ।
आत्मैव चिन्मयं नित्यमात्मैवाक्षरमव्ययम् ॥ ३६.४॥
आत्मैव सिद्धरूपं वा आत्मैवात्मा न संशयः ।
आत्मैवजगदाकारं आत्मैवात्मा स्वयं स्वयं ॥ ३६.५॥
आत्मैव शांतिकलनमात्मैव मनसा वियत् ।
आत्मैव सर्वं यत् किञ्चिदात्मैव परमं पदम् ॥ ३६.६॥
आत्मैव भुवनाकारमात्मैव प्रियमव्ययम् ।
आत्मैवान्यन्न च क्वापि आत्मैवान्यं मनोमयम् ॥ ३६.७॥
आत्मैव सर्वविज्ञानमात्मैव परमं धनम् ।
आत्मैव भूतरूपं वा आत्मैव भ्रमणं महत् ॥ ३६.८॥
आत्मैव नित्यशुद्धं वा आत्मैव गुरुरात्मनः ।
आत्मैव ह्यात्मनः शिष्य आत्मैव लयमात्मनि ॥ ३६.९॥
आत्मैव ह्यात्मनो ध्यानमात्मैव गतिरात्मनः ।
आत्मैव ह्यात्मनो होम आत्मैव ह्यात्मनो जपः ॥ ३६.१०॥
आत्मैव तृप्तिरात्मैव आत्मनोऽन्यन्न किञ्चन ।
आत्मैव ह्यात्मनो मूलमात्मैव ह्यात्मनो व्रतम् ॥ ३६.११॥
आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् ।
आत्मज्ञानं परानन्दमात्मज्ञानं परायणम् ॥ ३६.१२॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् ।
आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥ ३६.१३॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत् सुखम् । आत्मज्ञानं महोनात्मा आत्मज्ञानं जनास्पदम् ॥ ३६.१४॥
आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् । आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ ३६.१५॥
आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् । आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ ३६.१६॥
आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः । आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ ३६.१७॥
आत्मज्ञानं चित्तनाशः आत्मज्ञानं विमुक्तिदम् । आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ ३६.१८॥
आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् । आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ ३६.१९॥
आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् । आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ ३६.२०॥
आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि । आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ ३६.२१॥
आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः । आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ ३६.२२॥
आत्मज्ञानं परो धाता आत्मज्ञानं स्वसंमतम् । आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ ३६.२३॥
आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् । आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ ३६.२४॥
आत्मज्ञानं च किन्नाम अहं ब्रह्मेति निश्चयः । अहं ब्रह्मेति विश्वासमात्मज्ञानं महोदयम् ॥ ३६.२५॥
अहं ब्रह्मास्मि नित्योऽस्मि सिद्धोऽस्मीति विभावनम् । आनन्दोऽहं परानन्दं शुद्धोऽहं नित्यमव्ययः ॥ ३६.२६॥
चिदाकाशस्वरूपोऽस्मि सच्चिदानन्दशाश्वतम् । निर्विकारोऽस्मि शान्तोऽहं सर्वतोऽहं निरन्तरः ॥ ३६.२७॥
सर्वदा सुखरूपोऽस्मि सर्वदोषविवर्जितः । सर्वसङ्कल्पहीनोऽस्मि सर्वदा स्वयमस्म्यहम् ॥ ३६.२८॥
सर्वं ब्रह्मेत्यनुभवं विना शब्दं पर स्वयं ।
कोट्यश्वमेधे यत् पुण्यं क्षणात् तत्पुण्यमाप्नुयात् ॥ ३६.२९॥
अहं ब्रह्मेति निश्चित्य मेरुदानफलं लभेत् ।
ब्रह्मैवाहमिति स्थित्वा सर्वभूदानमप्यणु ॥ ३६.३०॥
ब्रह्मैवाहमिति स्थित्वा कोटीशो दानमप्यणु ।
ब्रह्मैवाहमिति स्थित्वा सर्वानन्दं तृणायते ॥ ३६.३१॥
ब्रह्मैव सर्वमित्येव भावितस्य फलं स्वयं ।
ब्रह्मैवाहमिति स्थित्वा समानं ब्रह्म एव हि ॥ ३६.३२॥
तस्मात् स्वप्नेऽपि नित्यं च सर्वं संत्यज्य यत्नतः ।
अहं ब्रह्म न संदेहः अहमेव गतिर्मम ॥ ३६.३३॥
अहमेव सदा नान्यदहमेव सदा गुरुः ।
अहमेव परो ह्यात्मा अहमेव न चापरः ॥ ३६.३४॥
अहमेव गुरुः शिष्यः अहमेवेति निश्चिन ।
इदमित्येव निर्देशः परिच्छिन्नो जगन्न हि ॥ ३६.३५॥
न भूमिर्न जलं नाग्निर्न वायुर्न च खं तथा ।
सर्वं चैतन्यमात्रत्वात् नान्यत् किंचन विद्यते ॥ ३६.३६॥
इत्येवं भावनपरो देहमुक्तः सुखीभव ।
अहमात्मा इदं नास्ति सर्वं चैतन्यमात्रतः ॥ ३६.३७॥
अहमेव हि पूर्णात्मा आनन्दाब्धिरनामयः ।
इदमेव सदा नास्ति जडत्वादसदेव हि ।
इदं ब्रह्म सदा ब्रह्म इदं नेति सुखी भव ॥ ३६.३८॥
तुरङ्गशृङ्गसन्निभा श्रुतिपरोचना ???
विशेषकामवासना विनिश्चितात्मवृत्तितः ।
नराः सुरा मुनीश्वरा असङ्गसङ्गमप्युमा-
पतिं ??? न ते भजन्ति केचन ??? ॥ ३६.३९॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽध्यायः ॥
॥ सप्तत्रिंशोऽध्यायः ॥
ऋभुः -
निदाघ शृणु वक्ष्यामि रहस्यं परमद्भुतम् । श्लोकैकश्रवणेनैव सद्यो मोक्षमवाप्नुयात् ॥ ३७.१॥
इदं दृष्टं परं ब्रह्म दृश्यवद्भाति चित्ततः । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.२॥
इदमेव हि नास्त्येव अयमित्यपि नास्ति हि । एक एवाप्यणुरपि नास्ति नास्ति न संशयः ॥ ३७.३॥
व्यवहारमिदं क्वापि वार्तामात्रमपि क्व वा । बन्धरूपं बन्धवार्ता बन्धकार्यं परं च वा ॥ ३७.४॥
सन्मात्रकार्यं सन्मात्रमहं ब्रह्मेति निश्चयं । दुःखं सुखं वा बोधो वा साधकं साध्यनिर्णयः ॥ ३७.५॥
आत्मेति परमात्मेति जीवात्मेति पृथङ् न हि । देहोऽहमिति मूर्तोऽहं ज्ञानविज्ञानवानहम् ॥ ३७.६॥
कार्यकारणरूपोऽहमन्तःकरणकार्यकम् । एकमित्येकमात्रं वा नास्ति नास्तीति भावय ॥ ३७.७॥
सर्वसङ्कल्पमात्रेति सर्वं ब्रह्मेति वा जगत् । तत्त्वज्ञानं परं ब्रह्म ॐकारार्थं सुखं जपम् ॥ ३७.८॥
द्वैताद्वैतं सदाद्वैतं तथा मानावमानकम् । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.९॥
आत्मानन्दमहं ब्रह्म प्रज्ञानं ब्रह्म एव हि । इदं रूपमहं रूपं प्रियाप्रियविचारणम् ॥ ३७.१०॥
यद्यत् सम्भाव्यते लोके यद्यत् साधनकल्पनम् । यद्यन्तरहितं ब्रह्मभावनं चित्तनिर्वृतम् ॥ ३७.११॥
स्थूलदेहोऽहमेवात्र सूक्ष्मदेहोऽहमेव हि । बुद्धेर्भेदं मनोभेदं अहङ्कारं जडं च तत् ॥ ३७.१२॥
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते । श्रवणं मननं चैव साक्षात्कारविचारणम् ॥ ३७.१३॥
आत्मैवाहं परं चैव नाहं मोहमयं स्वयं । ब्रह्मैव सर्वमेवेदं ब्रह्मैव परमं पदम् ॥ ३७.१४॥
ब्रह्मैव कारणं कार्यं ब्रह्मैव जगतां जयः । ब्रह्मैव सर्वं चैतन्यं ब्रह्मैव मनसायते ॥ ३७.१५॥
ब्रह्मैव जीववद्भाति ब्रह्मैव च हरीयते । ब्रह्मैव शिववद्भाति ब्रह्मैव प्रियमात्मनः ॥ ३७.१६॥
ब्रह्मैव शान्तिवद्भाति ब्रह्मणोऽन्यन्न किंचन । नाहं न चायं नैवान्यन्नोत्पन्नं न परात् परम् ॥ ३७.१७॥
न चेदं न च शास्त्रार्थं न मीमांसं न चोद्भवम् । न लक्षणं न वेदादि नापि चित्तं न मे मनः ॥ ३७.१८॥
न मे नायं नेदमिदं न बुद्धिनिश्चयं सदा । कदाचिदपि नास्त्येव सत्यं सत्यं न किंचन ॥ ३७.१९॥
नैकमात्रं न चायं वा नान्तरं न बहिर्न हि । ईषन्मात्रं च न द्वैतं न जन्यं न च दृश्य कम् ॥ ३७.२०॥
न भावनं न स्मरणं न विस्मरणमण्वपि । न कालदेशकलनं न संकल्पं न वेदनम् ॥ ३७.२१॥
न विज्ञानं न देहोऽहं न वेदोऽहं न संसृतिः । न मे दुःखं न मे मोक्षं न गतिश्च च दुर्गतिः ॥ ३७.२२॥
नात्मा नाहं न जीवोऽहं न कूटस्थो न जायते । न देहोऽहं न च श्रोत्रं न त्वगिन्द्रियदेवता ॥ ३७.२३॥
सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा । अखण्डाकाररूपत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२४॥
हुंकारास्यावकाशो वा हुंकारजननं च वा । नास्त्येव नास्ति नास्त्येव नास्ति नास्ति कदाचन ॥ ३७.२५॥
अन्यत् पदार्थमल्पं वा अन्यदेवान्यभाषणम् । आत्मनोऽन्यदसत्यं वा सत्यं वा भ्रान्तिरेव च ॥ ३७.२६॥
नास्त्येव नास्ति नास्त्येव नास्ति शब्दोऽपि नास्ति हि । सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२७॥
सर्वं ब्रह्म न सन्देहो ब्रह्मैवाहं न संशयः । वाक्यं च वाचकं सर्वं वक्ता च त्रिपुटीद्वयम् ॥ ३७.२८॥
ज्ञाता ज्ञानं ज्ञेयभेदं मातृमानमिति प्रियं । यद्यच्चास्तेषु निर्लीतं यद्यद्वेदेषु निश्चितं ॥ ३७.२९॥
परापरमतीतं च अतीतोऽहमवेदनं । गुरुर्गुरूपदेशश्च गुरुं वक्ष्ये न कस्यचित् ॥ ३७.३०॥
गुरुरूपा गुरुश्रद्धा सदा नास्ति गुरुः स्वयं । आत्मैव गुरुरात्मैव अन्याभावान्न संशयः ॥ ३७.३१॥
आत्मनः शुभमात्मैव अन्याभावान्न संशयः । आत्मनो मोहमात्मैव आत्मनोऽस्ति न किंचन ॥ ३७.३२॥
आत्मनः सुखमात्मैव अन्यन्नास्ति न संशयः । आत्मन्येवात्मनः शक्तिः आत्मन्येवात्मनः प्रियं ॥ ३७.३३॥
आत्मन्येवात्मनः स्नानं आत्मन्येवात्मनो रतिः । आत्मज्ञानं परं श्रेयः आत्मज्ञानं सुदुर्लभं ॥ ३७.३४॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं सुखात् सुखं । आत्मज्ञानात् परं नास्ति आत्मज्ञानात् स्मृतिर्न हि ॥ ३७.३५॥
ब्रह्मैवात्मा न संदेहा आत्मैव ब्रह्मणः स्वयं । स्वयमेव हि सर्वत्र स्वयमेव हि चिन्मयः ॥ ३७.३६॥
स्वयमेव चिदाकाशः स्वयमेव निरंतरं । स्वयमेव च नानात्मा स्वयमेव च नापरः ॥ ३७.३७॥
स्वयमेव गुणातीतः स्वयमेव महत् सुखं । स्वयमेव हि शांतात्मा स्वयमेव हि निश्चलः ॥ ३७.३८॥
स्वयमेव चिदानंदः स्वयमेव महत्प्रभुः । स्वयमेव सदा साक्षी स्वयमेव सदाशिवः ॥ ३७.३९॥
स्वयमेव हरिः साक्षात् स्वयमेव प्रजापतिः । स्वयमेव परं ब्रह्म ब्रह्म एव स्वयं सदा ॥ ३७.४०॥
सर्वं ब्रह्म स्वयं ब्रह्म स्वयं ब्रह्म न संशयः । दृढनिश्चयमेव त्वं सर्वथा कुरु सर्वदा ॥ ३७.४१॥
विचारयन् स्वयं ब्रह्म ब्रह्ममात्रं स्वयं भवेत् । एतदेव परं ब्रह्म अहं ब्रह्मेति निश्चयः ॥ ३७.४२॥
एष एव परो मोक्ष अहं ब्रह्मेति निश्चयः । एष एव कृतार्थो हि एष एव सुखं सदा ॥ ३७.४३॥
एतदेव सदा ज्ञानं स्वयं ब्रह्म स्वयं महत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ 37.44॥
अहं ब्रह्म एतदेव स्वभावं सततं निजं ।
अहं ब्रह्म एतदेव सदा नित्यं स्वयं सदा ॥ 37.45॥
अहं ब्रह्म एतदेव बन्धनाशं न संशयः ।
अहं ब्रह्म एतदेव सर्वसिद्धान्तनिश्चयं ॥ 37.46॥
एष वेदान्तसिद्धान्त अहं ब्रह्म न संशयः ।
सर्वोपनिषदार्थः सर्वानन्दमयं जगत् ॥ 37.47॥
महावाक्यस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
साक्षाच्छिवस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ 37.48॥
नारायणस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
चतुर्मुखस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ 37.49॥
ऋषीणां हृदयं ह्येतत् देवानामुपदेशकं ।
सर्वदेशिकसिद्धान्त अहं ब्रह्मेति निश्चयः ॥ 37.50॥
यच्च यावच्च भूतानां महोपदेश एव तत् ।
अहं ब्रह्म महोमोक्षं परं चैतदहं स्वयं ॥ 37.51॥
अहं चानुभवं चैतन्यहोगोष्यमिदं च तत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ 37.52॥
महाप्रकाशमेवैतत् अहं ब्रह्म एव तत् ।
एतदेव महामन्त्रं एतदेव महोजपः ॥ 37.53॥
एतदेव महास्नानमहं ब्रह्मेति निश्चयः ।
एतदेव महातीर्थमहं ब्रह्मेति निश्चयः ॥ 37.54॥
एतदेव महागङ्गा अहं ब्रह्मेति निश्चयः ।
एष एव परो धर्म अहं ब्रह्मेति निश्चयः ॥ 37.55॥
एष एव महाकाश अहं ब्रह्मेति निश्चयः ।
एतदेव हि विज्ञानमहं ब्रह्मास्मि केवलं ।
सर्वसिद्धान्तमेवैतदहं ब्रह्मेति निश्चयः ॥ 37.56॥
सव्यासव्यतयाद्वयज्ञहृदया गोपोदहोर्द्यः प्रियः
पश्यन्त्यम्बुजमित्रमण्डलगतं शम्भुं हिरण्यात्मकं ।
सर्वत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन् धनैः
क्षुब्धं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥ ३७.५७॥
॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ॥
॥ अष्टात्रिंशोऽध्यायः ॥
ऋभुः –
वक्ष्ये अत्यद्भुतं व्यक्तं सच्चिदानन्दमात्रकम् । सर्वप्रपञ्चशून्यत्वं सर्वमात्मेति निश्चितम् ॥ ३८.१॥
आत्मरूपप्रपञ्चं वा आत्मरूपप्रपञ्चकम् । सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चितम् ॥ ३८.२॥
नित्यानुभवमानन्दं नित्यं ब्रह्मेति भावनम् । चित्तरूपप्रपञ्चं वा चित्तसंसारमेव वा ॥ ३८.३॥
इदमस्तीति सत्तात्मवाहमस्तीति वा जगत् । स्वान्तःकरणदोषं वा स्वान्तःकरणकार्यकम् ॥ ३८.४॥
स्वस्य जीवभ्रमः कश्चित् स्वस्य नाशं स्वजन्मना । ईश्वरः कश्चिदस्तीति जीवोऽहमिति वै जगत् ॥ ३८.५॥
माया सत्ता महो सत्ता चित्तसत्ता जगन्मयम् । यद्यच्छ दृश्यते शास्त्रैर्यद्यद्वेदे च भाषणम् ॥ ३८.६॥
एकमित्येव निर्देशं द्वैतमित्येव भाषणम् । शिवोऽस्मीति भ्रमः कश्चित् ब्रह्मास्मीति विभ्रमः ॥ ३८.७॥
विष्णुरस्मीति विभ्रान्तिर्जगदस्तीति विभ्रमः । ईषदस्तीति वा भेदं ईषदस्तीति वा द्वयम् ॥ ३८.८॥
सर्वमस्तीति नास्तीति सर्वं ब्रह्मेति निश्चयम् । आत्मध्यानप्रपञ्चं वा स्मरणादिप्रपञ्चकम् ॥ ३८.९॥
दुःखरूपप्रपञ्चं वा सुखरूपप्रपञ्चकम् । द्वैताद्वैतप्रपञ्चं वा सत्यासत्यप्रपञ्चकम् ॥ ३८.१०॥
जाग्रत्प्रपञ्चमेवापि तथा स्वप्नप्रपञ्चकम् । सुप्तिज्ञानप्रपञ्चं वा तुर्यज्ञानप्रपञ्चकम् ॥ ३८.११॥
वेदज्ञानप्रपञ्चं वा शास्त्रज्ञानप्रपञ्चकम् । पापबुद्धिप्रपञ्चं वा पुण्यभेदप्रपञ्चकम् ॥ ३८.१२॥
ज्ञानरूपप्रपञ्चं वा निर्गुणज्ञानप्रपञ्चकम् । गुणागूणप्रपञ्चं वा दोषादोषविनिर्णयम् ॥ ३८.१३॥
सत्यासत्यविचारं वा चराचरविचारणम् । एक आत्मेति सद्भावं मुख्य आत्मेति भावनम् ॥ ३८.१४ ॥
सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयम् । द्वैताद्वैतसमुद्भेदं नास्ति नास्तीति भाषणम् ॥ ३८.१५ ॥
असत्यं जगदेवेति सत्यं ब्रह्मेति निश्चयम् । कार्यरूपं कारणं च नानाभेदविजृम्भणम् ॥ ३८.१६ ॥
सर्वमन्त्रप्रदातारं दूरे दूरं तथा तथा । सर्वं संत्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.१७ ॥
मौनभावं मौनकार्यं मौनयोगं मनःप्रियम् । पञ्चाक्षरोपदेष्टारं तथा चाष्टाक्षरप्रदम् ॥ ३८.१८ ॥
यद्यद्वैतशास्त्रं यद्यद्वैदो गुरोऽपि वा । सर्वदा सर्वलोकेषु सर्वसङ्कल्पकल्पनम् ॥ ३८.१९ ॥
सर्ववाक्यप्रपञ्चं हि सर्वचित्तप्रपञ्चकम् । सर्वाकारविकल्पं च सर्वकारणकल्पनम् ॥ ३८.२० ॥
सर्वदोषप्रपञ्चं च सुखदुःखप्रपञ्चकम् । सहोदेयमुपादेयं ग्राह्यं त्याज्यं च भाषणम् ॥ ३८.२१ ॥
विचार्य जन्ममरणं वासनाचित्तरूपकम् । कामक्रोधं लोभमोहं सर्वडम्भं च हुंकृतिम् ॥ ३८.२२ ॥
त्रैलोक्यसम्भवं द्वैतं ब्रह्मेन्द्रवरुणादिकम् । ज्ञानेन्द्रियं च शब्दादि दिग्वाय्वर्कादिदैवतम् ॥ ३८.२३ ॥
कर्मेन्द्रियादिसद्भावं विषयं देवतागणम् । अन्तःकरणवृत्तिं च विषयं चाधिदैवतम् ॥ ३८.२४ ॥
चित्तवृत्तिं विभेदं च बुद्धिवृत्तिनिरूपणम् । मायामात्रमिदं द्वैतं सदसत्त्वादिनिर्णयम् ॥ ३८.२५ ॥
किञ्चिद् द्वैतं बहुद्वैतं जीवद्वैतं सदा ह्यसत् । जगदुत्पत्तिमोहं च गुरुशिष्यत्वनिर्णयम् ॥ ३८.२६ ॥
गोपनं तत्पदार्थस्य त्वम्पदार्थस्य मेलनम् । तथा चासिपदार्थस्य ऐक्यबुद्ध्यानुभावनम् ॥ ३८.२७ ॥
भेदेषु भेदाभेदं च नान्यत् किञ्चिच्च विद्यते । एतत् प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयः ॥ ३८.२८ ॥
सर्वं चैतन्यमात्रत्वात् केवलं ब्रह्म एव सः ।
आत्माकारमिदं सर्वमात्मनोऽन्यन्न किंचन ॥ ३८.२९॥
तुर्यातीतं ब्रह्मणोऽन्यत् सत्यासत्यं न विद्यते ।
सर्वं त्यक्त्वा तु सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३०॥
चित्तं कालं वस्तुभेदं संकल्पं भावनं स्वयं ।
सर्वं संत्यज्य सततं सर्वं ब्रह्मैव भावय ॥ ३८.३१॥
यद्यद्भेदपरं शास्त्रं यद्यद् भेदपरं मनः ।
सर्वं संत्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३२॥
मनः कल्पितकल्पं वा आत्मकल्पनविभ्रमं ।
अहंकारपरिच्छेदं देहोऽहं देहभावना ॥ ३८.३३॥
सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ।
प्रपंचस्य च सद्भावं प्रपंचोद्भवमन्यकं ॥ ३८.३४॥
बंधसद्भावकलनं मोक्षसद्भावभाषणं ।
देवताभावसद्भावं देवपूजाविनिर्णयं ॥ ३८.३५॥
पंचाक्षरेति यद्द्वैतमष्टाक्षरस्य दैवतं ।
प्राणादिपंचकास्तित्वमुपप्राणादिपंचकं ॥ ३८.३६॥
पृथिवीभूतभेदं च गुणा यत् कुंठनादिकं ।
वेदांतशास्त्रसिद्धातं शैवागमनमेव च ॥ ३८.३७॥
लौकिकं वास्तवं दोषं प्रवृत्तिं च निवृत्तिकं ।
सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ॥ ३८.३८॥
आत्मज्ञानसुखं ब्रह्म अनात्मज्ञानदूषणं ।
रेचकं पूरकं कुंभं षडाधारविशोधनं ॥ ३८.३९॥
द्वैतवृत्तिश्च देहोऽहं साक्षिवृत्तिश्चिदंशकं ।
अखंडाकारवृत्तिश्च अखंडाकारसंमतं ॥ ३८.४०॥
अनंतानुभवं चापि अहं ब्रह्मेति निश्चयं ।
उत्तमं मध्यमं चापि तथा चैवाधमाधमं ॥ ३८.४१॥
दूषणं भूषणं चैव सर्ववस्तुविनिंदनं ।
अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मैव तत्त्वतः ॥ ३८.४२॥
अहं ब्रह्मास्मि मुग्धोऽस्मि वृद्धोऽस्मि सदसत्परः ।
वैश्वानरो विराट् स्थूलप्रपंचमिति भावनं ॥ ३८.४३॥
आनन्दस्फूरणेनाहं परापरविवर्जितः ।
नित्यानन्दमयं ब्रह्म सच्चिदानन्दविग्रहः ॥ ३८.४४॥
दृग्रूपं दृश्यरूपं च महासत्तास्वरूपकं ।
कैवल्यं सर्वनिधनं सर्वभूतान्तरं गतम् ॥ ३८.४५॥
भूतभव्यं भविष्यच्च वर्तमानमसत् सदा ।
कालभावं देहभावं सत्यासत्यविनिर्णयम् ॥ ३८.४६॥
प्रज्ञानघन एवाहं शान्ताशान्तं निरञ्जनम् ।
प्रपञ्चवार्तास्मरणं द्वैताद्वैतविभावनम् ॥ ३८.४७॥
शिवागमसमाचारं वेदान्तश्रवणं पदम् ।
अहं ब्रह्मास्मि शुद्धोऽस्मि चिन्मात्रोऽस्मि सदाशिवः ॥ ३८.४८॥
सर्वं ब्रह्मेति सन्त्यज्य स्वात्मन्येव स्थिरो भव ।
अहं ब्रह्म न सन्देह इदं ब्रह्म न संशयः ॥ ३८.४९॥
स्थूलदेहं सूक्ष्मदेहं कारणं देहमेव च ।
एवं ज्ञातुं च सततं ब्रह्मैवेदं क्षणे क्षणे ॥ ३८.५०॥
शिवो ह्यात्मा शिवो जीवः शिवो ब्रह्म न संशयः ।
एतत् प्रकरणं यस्तु सकृद्वा सर्वदापि वा ॥ ३८.५१॥
पठेद्वा शृणुयाद्वापि स च मुक्तो न संशयः ।
निमिषं निमिषार्धं वा श्रुत्यैतद्ब्रह्मभार्भवेत् ॥ ३८.५२॥
लोकालोकजगत्स्थितिप्रविलयप्रोद्भावसत्तात्मिका
भीतिः शंकरनामरूपमसृदप्याकुर्वते केवलम् ।
सत्यासत्यनिरंकुशश्रुतिवचोवीचीभिराभृश्यते
यस्यैतत् सदितीव तत्त्ववचनैर्मीमांस्यतेऽयं शिवः ॥ ३८.५३॥
॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपंचशून्यत्वप्रकरणं नाम अष्टात्रिंशोऽध्यायः ॥
॥ एकोनचत्वारिंशोऽध्यायः ॥
ऋभुः –
परं ब्रह्म प्रवक्ष्यामि निर्विकल्पं निरामयम् ।
तदेवाहं न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ ३९.१॥
चिन्मात्रममलं शान्तं सच्चिदानन्दविग्रहम् ।
आनन्दं परमानन्दं निर्विकल्पं निरञ्जनम् ॥ ३९.२॥
गुणातीतं जनातीतमवस्थातीतमव्ययम् ।
एवं भावय चैतन्यमहं ब्रह्मास्मि सोऽस्म्यहम् ॥ ३९.३॥
सर्वातीतःस्वरूपोऽस्मि सर्वशब्दार्थवर्जितः ।
सत्योऽहं सर्वहन्ताऽहं शुद्धोऽहं परमोऽस्म्यहम् ॥ ३९.४॥
अजोऽहं शान्तरूपोऽहं अशरीरोऽहमन्तरः ।
सर्वहीनोऽहमेवाहं स्वयमेव स्वयं महः ॥ ३९.५॥
आत्मैवाहं परात्माऽहं ब्रह्मैवाहं शिवोऽस्म्यहम् ।
चित्तहीनस्वरूपोऽहं बुद्धिहीनोऽहमस्म्यहम् ॥ ३९.६॥
व्यापकोऽहमहं साक्षी ब्रह्माहमिति निश्चयः ।
निष्प्रपञ्चगजारूढो निष्प्रपञ्चाश्ववाहनः ॥ ३९.७॥
निष्प्रपञ्चमहाराज्यो निष्प्रपञ्चायुधादिमान् ।
निष्प्रपञ्चमहावेदो निष्प्रपञ्चात्मभावनः ॥ ३९.८॥
निष्प्रपञ्चमहानिद्रो निष्प्रपञ्चस्वभावकः ।
निष्प्रपञ्चस्तु जीवात्मा निष्प्रपञ्चकलेवरः ॥ ३९.९॥
निष्प्रपञ्चपरिवारो निष्प्रपञ्चोत्सवो भवः ।
निष्प्रपञ्चस्तु कल्याणो निष्प्रपञ्चस्तु दर्पणः ॥ ३९.१०॥
निष्प्रपञ्चरथारूढो निष्प्रपञ्चविचारणम् ।
निष्प्रपञ्चगुहान्तःस्थो निष्प्रपञ्चप्रदीपकम् ॥ ३९.११॥
निष्प्रपञ्चप्रपूर्णात्मा निष्प्रपञ्चोऽरिमर्दनः ।
चित्तमेव प्रपञ्चो हि चित्तमेव जगत्त्रयम् ॥ ३९.१२॥
चित्तमेव महामोहश्चित्तमेव हि संसृतिः ।
चित्तमेव महापापं चित्तमेव हि पुण्यकम् ॥ ३९.१३॥
चित्तमेव महाबन्धश्चित्तमेव विमोक्षदम् ।
ब्रह्मभावनया चित्तं नाशमेति न संशयः ॥ ३९.१४॥
ब्रह्मभावनया दुःखं नाशमेति न संशयः ।
ब्रह्मभावनया द्वैतं नाशमेति न संशयः ॥ ३९.१५॥
ब्रह्मभावनया कामः नाशमेति न संशयः ।
ब्रह्मभावनया क्रोधः नाशमेति न संशयः ॥ ३९.१६॥
ब्रह्मभावनया लोभः नाशमेति न संशयः ।
ब्रह्मभावनया ग्रन्थिः नाशमेति न संशयः ॥ ३९.१७॥
ब्रह्मभावनया सर्वं ब्रह्मभावनया मदः ।
ब्रह्मभावनया पूजा नाशमेति न संशयः ॥ ३९.१८॥
ब्रह्मभावनया ध्यानं नाशमेति न संशयः ।
ब्रह्मभावनया स्नानं नाशमेति न संशयः ॥ ३९.१९॥
ब्रह्मभावनया मन्त्रो नाशमेति न संशयः ।
ब्रह्मभावनया पापं नाशमेति न संशयः ॥ ३९.२०॥
ब्रह्मभावनया पुण्यं नाशमेति न संशयः ।
ब्रह्मभावनया दोषो नाशमेति न संशयः ॥ ३९.२१॥
ब्रह्मभावनया भ्रान्तिः नाशमेति न संशयः ।
ब्रह्मभावनया दृश्यं नाशमेति न संशयः ॥ ३९.२२॥
ब्रह्मभावनया सङ्गो नाशमेति न संशयः ।
ब्रह्मभावनया तेजो नाशमेति न संशयः ॥ ३९.२३॥
ब्रह्मभावनया प्रज्ञा नाशमेति न संशयः ।
ब्रह्मभावनया सत्ता नाशमेति न संशयः ॥ ३९.२४॥
ब्रह्मभावनया भीतिः नाशमेति न संशयः ।
ब्रह्मभावनया वेदः नाशमेति न संशयः ॥ ३९.२५॥
ब्रह्मभावनया शास्त्रं नाशमेति न संशयः ।
ब्रह्मभावनया निद्रा नाशमेति न संशयः ॥ ३९.२६॥
ब्रह्मभावनया कर्म नाशमेति न संशयः ।
ब्रह्मभावनया तुर्यं नाशमेति न संशयः ॥ ३९.२७॥
ब्रह्मभावनया द्वन्द्वं नाशमेति न संशयः ।
ब्रह्मभावनया पृच्छेदहं ब्रह्मेति निश्चयम् ॥ ३९.२८॥