ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
अध्यायपादाध्ययनेऽपि विद्या बुद्ध्या हृदि ध्यायति बन्धमुक्त्यै ।
सूतः –
अध्यायपादाध्ययनेऽपि विद्या बुद्ध्या हृदि ध्यायति बन्धमुक्त्यै ।
स्वाध्यायतान्ताय शमान्विताय दद्याद्यदद्यान्न विभेद्यमेतत् ॥ ५०.७१॥
इत्थं सूतवचोद्यतमहानन्दैकमोदप्रभा
भास्वद्भास्करसप्रभा मुनिवराः संतुष्टुवुस्तं तदा ।
वेदोद्यद्वचनाशिषा प्रहृषिताः सूतं जयेत्युच्चरन्
प्याहो जग्मुरतीव हर्षितहृदा विश्वेश्वरं वीक्षितुम् ॥ ५०.७२॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सुदर्शनस्य मुक्तिलाभवर्णनं अंशश्रवणफलनिरूपणं च नाम पञ्चाशोऽध्यायः ॥
॥ शङ्कराख्यः षष्ठांशः समाप्तः ॥
శ్రీ గురుజ్ఞానవాసిష్ఠే ఋభుగీత
(देवनागरी लिप्यान्तरण: श्री गुरुज्ञानवासिष्ठे ऋभुगीत)
॥ प्रथमोऽध्यायः ॥
श्री गुरुमूर्तिः ।
पुनर्ज्ञानं प्रवक्ष्यामि यथावत्हृत्संभव । येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात् ॥ १.०१॥
विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुं । ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना ॥ १.०२॥
निदाघः ।
आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो । येन संसारपाथोधिं तरिष्यामि सुखेन वै ॥ १.०३॥
ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित् । सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः ॥ १.०४॥
ऋभुः ।
सर्ववाचोऽवधिर्ह्यह्मा सर्वचिन्ताऽवधिर्गुरुः । सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १.०५॥
सर्वसंकल्परहितस्सर्वनादमयश्शिवः । सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः ॥ १.०६॥
सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः । सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ १.०७॥
सर्वनादकलातीत एष आत्माऽहमव्ययः । आत्मानात्मविवेकादि भेदाभेदविवर्जितः ॥ १.०८॥
शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः । महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः ॥ १.०९॥
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः । क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ १.१०॥
अखण्डैकरसो वाऽहमानन्दोऽस्मीति वर्जितः । सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ १.११॥
आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः । सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ १.१२॥
ननिर्देष्टुं च शक्यो यो वेदवाक्यैरगम्यकः । यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च ॥ १.१३॥
यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः । नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १.१४॥
नामरूपादिकं नास्ति भोज्यं वा भोगभुक् च वा । सद्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम् ॥ १.१५॥
गुणं वा विगुणं वाऽपि सम आसीन्न संशयः । यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १.१६॥
गुरुशिष्यादि भेदं वा देवलोकास्सुरासुराः । यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि ॥ १.१७॥
यत्र कालमकालं वा निश्चयं संशयं नहि । यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते ॥ १.१८॥
द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम् । अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा ॥ १.१९॥
अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु । सर्वसङ्कल्पशून्यत्वात् सर्वकार्यविवर्जनात् ॥ १.२०॥
केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु । देहत्रयविहीनत्वात् कालत्रयविवर्जनात् ॥ १.२१॥
लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् । चित्ताभावान्न चिन्तास्ति देहाभावाज्जरा न च ॥ १.२२॥
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च । मृत्युर्नास्ति जराऽभावात् बुद्ध्याभावात् सुखादिकम् ॥ १.२३॥
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च । अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि ॥ १.२४॥
एकाभावे द्वितीयं न न द्वितीये नचैकता । सत्यत्वमस्तिचेत् किञ्चिदसत्यं न च सम्भवेत् ॥ १.२५॥
असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति । शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते ॥ १.२६॥
भयं यद्यभयं विद्धि अभयाद्भयमापतेत् । बन्धत्वमपिचेन्नोक्तो बन्धाभावे न मोक्षता ॥ १.२७॥
मरणं यदि चेज्जन्म जन्माभावे मृतिश्च न ।
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ॥ १.२८॥
इदं यदि तदेवास्ति तदभावादिदं न च ।
अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किंचन ॥ १.२९॥
कार्यं चेत्कारणं किंचित् कार्याभावे न कारणं ।
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च ॥ १.३०॥
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ।
अन्तर्यदि बहिस्सत्यमन्ताभावे बहिेश्च न ॥ १.३१॥
पूर्णत्वमस्ति चेत्किंचिदपूर्णत्वं प्रसज्यते ।
तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदं ॥ १.३२॥
नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे ।
परं ब्रह्मेहमस्मीति स्मरणस्य मनो नहि ॥ १.३३॥
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहं ।
चिन्मात्रं केवलं चाहं नास्त्यनात्वेति निश्चिनू ॥ १.३४॥
इदं प्रपञ्चं नास्त्येव नोत्पन्नं नोस्थितं क्वचित् ।
चित्तं प्रपञ्चमित्याहुर्नास्त्येव सर्वदा ॥ १.३५॥
न प्रपञ्चं न चित्तादि नाहंकारो न जीवकः ।
मायाकार्यादिकं नास्ति माया नास्ति भयं न च ॥ १.३६॥
कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि ।
समाधि द्वितयं नास्ति मातृमानादि नास्ति हि ॥ १.३७॥
अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न ।
अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न ॥ १.३८॥
न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ।
न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् ॥ १.३९॥
न देवो न च दिक्पाला न वेदा न गुरुः क्वचित् ।
न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितं ॥ १.४०॥
नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न ।
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ॥ १.४१॥
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकं ।
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि ॥ १.४२॥
चिदित्येवैति नास्त्येव चिदहं भाषणं नहि ।
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मिन क्वचित् ॥ १.४३॥
वाचा यदुच्यते किञ्चिन् मनसा मनुते क्वचित् ।
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ॥ १.४४॥
योगियोगादिकं नास्ति सदा सर्वं सदा न च ।
अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ॥ १.४५॥
भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु ।
वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः ॥ १.४६॥
लोको भूतं जनस्यैक्यं सर्वं मिथ्या न संशयः ।
वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् ॥ १.४७॥
मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः ।
बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् ॥ १.४८॥
शास्त्रैः प्रपञ्च्यते यद्यत् नेत्रैणैव निरीक्ष्यते ।
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ॥ १.४९॥
त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च ।
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ १.५०॥
इदं मिथ्यैवनिर्दिष्टमयमित्येव कल्प्यते ।
यद्यत्सम्भाव्यते लोके सर्वं सङ्कल्पसम्भ्रमः ॥ १.५१॥
सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ।
सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु ॥ १.५२॥
मदीयं च त्वदीयं च ममेति च तवेति च ।
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ॥ १.५३॥
रक्षको विष्णुरित्यादि ब्रह्मो सृष्टेस्तु कारणम् ।
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ॥ १.५४॥
स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम् ।
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् ॥ १.५५॥
अन्तःकरण सद्भावोऽविद्यायाश्च सम्भवः ।
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥ १.५६॥
सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता ।
दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते ॥ १.५७॥
वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनम् ।
येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम् ॥ १.५८॥
येनेकेनापि गदितं येनेकेनापि मोदितम् ।
येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम् ॥ १.५९॥
यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम् ।
यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनम् ॥ १.६०॥
इदं प्रपञ्चं यत्किञ्चित् यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ १.६१॥
श्री गुरुमूर्तिः ।
एवं श्रुत्वा निदाघस्तु ब्रह्मन् संशयवेष्टितः ।
ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये ॥ १.६२॥
निदाघः ।
स्वामिन् मुमुक्षोःपुंसारान् ममारूपेण वस्तुना ।
प्रपञ्चितेन न फलं भवेदिति मे मतिः ॥ १.६३॥
यतस्सद्गदितं ब्रह्म तत्त्वमस्याद्यगोचरम् ।
अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो ॥ १.६४॥
ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा ।
तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः ॥ १.६५॥
फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः ।
त्वदुक्त निश्चये सर्वसाङ्कर्यं च प्रसज्यते ॥ १.६६॥
यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता ।
हेयत्वान्नैव जिज्ञास्यं किञ्चिदप्यत्र सिध्यति ॥ १.६७॥
शशशृङ्ग समानत्वं यथाप्रोक्तमनात्मनाम् ।
अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः ॥ १.६८॥
अथवा तत् तथैवास्तां अन्यथावापि मे गुरो ।
यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम् ॥ १.६९॥
एवं उक्तो निदाघेन कुशाग्रमतिना परम् ।
ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम् ॥ १.७०॥
ऋभुः ।
निदाघ सत्यमेवैतद्यदुक्तं युक्तिगर्भितम् ।
तथापि युक्तं मद्वाक्यं त्रैविध्याज्ज्ञेयवस्तुनः ॥ १.७१॥
सगुणं निर्गुणं ताभ्यां अन्यन्निष्प्रतियोगिकम् ।
ब्रह्मैवं त्रिविधं लिङ्गैर्वेदान्तेषु हि विश्रुतम् ॥ १.७२॥
तत्राद्यं हेयगुणकं सोपाधित्वान्मुमुक्षुभिः ।
तत्त्वमस्यादिवाच्यत्वाज्ज्ञेयं हेयतयाग्रतः ॥ १.७३॥
जीवेश्वरविभागेन सगुणं द्विविधं भवेत् ।
जीवश्च त्रिविधस्तद्वद् ईशश्चास्तां इदं तथा ॥ १.७४॥
उपादेयं द्वितीयं स्यान्निर्गुणं मोक्षकाङ्क्षिभिः ।
तत्त्वमस्यादिलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः ॥ १.७५॥
हेयोपादेयशून्यं तत्तृतीयं प्रकृतं यतः ।
मुक्तैः प्राप्यं अतश्चैवमपि ज्ञेयं मुमुक्षुभिः ॥ १.७६॥
इदन्त्येनाप्यहन्त्येन स्वत्वेनापि नवेद्यता ।
तथाप्यस्यास्ति वेद्यत्वं श्रुत्युक्तत्वान्न नास्तिता ॥ १.७७॥
मुक्तस्य स्वगतो भेदो यदनाप्ता न नश्यति ।
तज्ज्ञाने फलमेतत्स्यात् सर्वभेदनिबर्हणम् ॥ १.७८॥
अतोऽस्यालक्षणत्वेन सदसद्वरतास्त्वपि ।
शशशृङ्गसमानत्वं निदाघाशक्यमीरितुम् ॥ १.७९॥
विशेषसत्त्वाभावेपि सत्तासामान्यता यतः ।
निर्द्वन्द्वत्वेन संसिद्धा ततस्सत्त्वादिकं भवेत् ॥ १.८०॥
अथवा शशशृङ्गादि सादृश्यं भवतु स्वतः ।
सिद्धान्तता श्रुतिप्रोक्ता नैराश्यस्य हि सुव्रत ॥ १.८१॥
न तावता विरोधोस्ति कश्चिदप्यधुना तव ।
संसारमोक्षसिद्ध्यर्थं अस्यानुक्ततया मया ॥ १.८२॥
॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः
एवं श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः ॥
॥ द्वितीयोऽध्यायः ॥
अथातस्सम्प्रवक्ष्यामि निदाघ शृणु सादरम् । संसारमोक्षसिद्ध्यर्थं स्वरूपं ब्रह्म निर्गुणम् ॥ २.०१ ॥
तत्त्वमस्यादिवाक्यैर्लक्ष्यं जीवादिकारणम् । नित्यशुद्धविबुद्धं च नित्यमुक्तं च शाश्वतम् ॥ २.०२ ॥
यत्सर्ववेदसिद्धान्तं यज्ज्ञात्वैव मुक्तता । जीवस्य यच्च सम्पूर्णं तत्त्वमेवासि निर्मलम् ॥ २.०३ ॥
त्वमेव परमात्मासि त्वमेव परमो गुरुः । त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा ॥ २.०४ ॥
त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः । कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ॥ २.०५ ॥
सर्वतस्सर्वरूपोऽसि चैतन्यघनवानसि । सर्वभूतान्तरस्थोऽसि कार्याध्यक्षोऽसि निर्गुणः ॥ २.०६ ॥
सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि मुदाऽमृतोऽसि । देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥ २.०७ ॥
समोऽसि सच्छसि चिरन्तनोऽसि सत्यादिवाक्यैः प्रतिबोधितोऽसि । सर्वाङ्गहीनोऽसि सदास्थितोऽसि ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥ २.०८ ॥
सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु च भावितोऽसि । सर्वत्र सङ्कल्पविवर्जितोऽसि सर्वागमान्तार्थविभावितोऽसि ॥ २.०९ ॥
सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र गत्यादिविवर्जितोऽसि । सर्वत्र लक्ष्यादि विवर्जितोऽसि ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् ॥ २.१० ॥
चिदाकार स्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निश्चलः ॥ २.११ ॥
आनन्दोऽसि परोऽसि त्वमेकमेवाद्वितीयकः । चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः ॥ २.१२ ॥
सदसि त्वमभिज्ञोऽसि सोऽसि जानासि वीक्ष्यसि । सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः ॥ २.१३ ॥
अमृतोऽसि विभुश्चासि चञ्चलोऽस्यचलोह्यसि । सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः ॥ २.१४ ॥
सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि ।
नित्यसिद्धस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ २.१५ ॥
ईषणात्रयविशून्योऽसि ह्यणुमात्रविवर्जितः ।
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ २.१६ ॥
लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः ।
सर्वनादान्तरोऽसि त्वं कलाकाष्ठादिवर्जितः ॥ २.१७ ॥
ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ २.१८ ॥
स्वात्मराज्ये स्वमेवासि स्वयम्भावविवर्जितः ।
शिष्टपूर्णस्वरूपोऽसि स्वस्यात्किञ्चिन्नपश्यसि ॥ २.१९ ॥
स्वस्वरूपान्नचलसि स्वस्वरूपेण जृम्भसि ।
स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु ॥ २.२० ॥
इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ २.२१ ॥
लक्ष्यलक्षणहीनत्वाद्युक्त्या निष्प्रतियोगिकम् ।
न मन्तव्यं यथायोग्यं लौकिकैस्त्वं विनिश्चिनु ॥ २.२२ ॥
निर्गुणं निर्मलं शान्तं ब्रह्मसप्रतियोगिकम् ।
शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु ॥ २.२३ ॥
आत्मस्त्वं सच्चिदानन्दलक्षैरक्षमद्वयम् ।
ब्रह्मैवास्मि न देहोऽयमिति चित्तेऽवधारय ॥ २.२४ ॥
देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् ।
देहोऽहमिति सङ्कल्पो महान् संसार उच्यते ॥ २.२५ ॥
देहोऽहमिति सङ्कल्पस्तद्बन्ध इति चोच्यते ।
देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते ॥ २.२६ ॥
देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् ।
देहोऽहमिति सङ्कल्पो जगत्सर्वं समीर्यते ॥ २.२७ ॥
देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः ।
देहोऽहमिति यज्ज्ञानं तदसज्ज्ञानमेव च ॥ २.२८ ॥
देहोऽहमिति यद्बुद्धिः सा चाविद्येति भण्यते ।
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ २.२९ ॥
देहोऽहमिति संकल्पस्त्वत्यजीवस्य एव च ।
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ २.३० ॥
देहोऽहमिति संकल्पो महापापमिति स्फुटम् ।
देहोऽहमिति या बुद्धिस्स्याद्दोषाऽऽमयः किल ॥ २.३१ ॥
यत्किंचिदपि संकल्पस्तापत्रयमितीरितम् ।
तच्च सर्वं मनुष्याणां मानसं हि निगद्यते ॥ २.३२ ॥
कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् ।
यत्किंचेदं सर्वसंकल्पजातं तत्किंचेदं मानसं सोम्य विद्धि ॥ २.३३ ॥
मन एव जगत्सर्वं मन एव महारिपुः ।
मन एव हि संसारो मन एव जगत्त्रयम् ॥ २.३४ ॥
मन एव महद्दुःखं मन एव जरादिकम् ।
मन एव हि कालश्च मन एव मलं तथा ॥ २.३५ ॥
मन एव हि संकल्पो मन एव च जीवकः ।
मन एव हि चित्तं च मनोऽहंकार एव च ॥ २.३६ ॥
मन एव महान् बन्धो मनोऽन्तःकरणं च तत् ।
मन एव हि भूमिश्च मन एव हि तज्जलं ॥ २.३७ ॥
मन एव हि तेजश्च मन एव मरुन्महान् ।
मन एव हि चाकाशो मन एव हि शब्दकः ॥ २.३८ ॥
स्पर्शरूपरसा गन्धः कोशाः पंच मनोभवाः ।
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् ॥ २.३९ ॥
दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः ।
दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ २.४० ॥
संकल्पमेव यत्किंचित्तत्तन्नास्तीति निश्चनु ।
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहि ॥ २.४१ ॥
व्यवहारदशायां हि गुरुशिष्यादिकं भवेत् ।
परमार्थदशायां तत् कथं मुक्तौ प्रसिध्यति ॥ २.४२ ॥
मुक्त्यतीत दशायां च प्रोच्यते परमार्थता ।
तथाप्यसत्यहंत्वत्वान्मुक्तेरेवास्ति मुख्ययाः ॥ २.४३ ॥
मनसा कल्पितं सर्वं मनसा परिपालितम् ।
मनसा संस्कृतं तस्मान्नन एवास्ति कारणम् ॥ २.४४ ॥
मनसा संस्कृतं सर्वं मनसैव च विस्कृतम् ।
मनसा भावितं सर्वं मनसैव ह्यभावितम् ॥ २.४५ ॥
मनसा दूषितं सर्वं मनसैव च भूषितम् ।
मनसा सुखवृत्तिस्स्यान्मनसा दुःखसंचयः ॥ २.४६ ॥
तस्मात्सर्वनिदानं तन्मनस्सूक्ष्मं परात्मनि ।
त्वयि सच्चित्सुखाम्बोधौ कल्पितं विद्धि मायया ॥ २.४७ ॥
त्वदन्यस्य च सर्वस्य कल्पितत्वादबोधतः ।
त्वमेव सर्वसाक्षी सन् स्वयं भासि निरन्तरम् ॥ २.४८ ॥
तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गतिः ।
मन्दबुद्ध्या गतौ सत्यामपि नाशस्स्वयं भवेत् ॥ २.४९ ॥
नित्यबोधस्वरूपस्य ह्यबोधप्रतियोगिकः ।
त्वयि तत्सन्निवर्तेत तमस्सूर्योदये यथा ॥ २.५० ॥
ज्ञातृज्ञानप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्वयि ।
तस्याखण्डस्वरूपत्वात् सर्वाधिष्ठानतोचिता ॥ २.५१ ॥
मुमुक्षुभिश्च विज्ञेयास्स्वधर्मास्सच्चिदादयः ।
सन्मयश्चिन्मयश्चेत्या तथानन्दमयो यतः ॥ २.५२ ॥
चिद्रूपस्य तवात्मत्वादनात्मान्यश्चिन्मयाः ।
अनात्मनां विकारित्वान्निर्विकारस्त्वमिष्यसे ॥ २.५३ ॥
विकारस्य समस्तस्याप्यविद्याकल्पितत्वतः ।
विलये निर्विकारस्त्वं विद्यावानवशिष्यसे ॥ २.५४ ॥
बृहद् ब्रह्मावशेषो हि नाशः कल्पितवस्तुनः ।
यच्छेषास्स्युरिमे सर्वे स शेषी नित्यतां व्रजेत् ॥ २.५५ ॥
शेषस्य शेष्यनन्यत्वं वास्तवं सर्वसम्मतम् ।
शेषिणस्तु त्वानन्यत्वान्न शेषस्यास्ति नित्यता ॥ २.५६ ॥
शेषिणश्शेषापेक्ष्यान्न स्वातन्त्र्येण शेषिता ।
इति वक्तुं न शक्यं हि स्वमहिम्नि स्थितत्वतः ॥ २.५७ ॥
स्वस्यैव महिमा सर्वव्यापकत्वादिलक्षणः ।
सर्वज्ञत्वादि संसिद्धः काभ्यूह्येत युक्तिभिः ॥ २.५८ ॥
व्याप्यानापेक्षता तस्य व्यापकस्येतिचेच्छृणु ।
व्याप्यानपेक्षं सिद्धिर्हि व्यापकस्य निजाश्रयात् ॥ २.५९ ॥
व्याप्यस्यैव हि जीवस्य विकारापेक्षया तथा ।
व्यापकापेक्षया च स्यात् स्थितिर्न व्यापकस्यतु ॥ २.६० ॥
विकारालम्बनाभावात्स्यालम्बनतयापि च ।
सर्वालम्बनता सिद्धा न स्वहोनेश्च संगतिः ॥ २.६१ ॥
सर्वाधारस्य नाधारोऽपेक्ष्यतेपि क्वचिद्विभोः ।
स चेदाधारसापेक्षो न सर्वाधारतां व्रजेत् ॥ २.६२ ॥
सर्वाधारस्य च व्योम्नो यथात्माधार इष्यते ।
तथात्मनोऽपि कश्चित्स्यादिति चेद्बाधमुच्यते ॥ २.६३ ॥
आत्मैवात्मन आधार आत्मन्येवात्मनःस्थितिः ।
अनात्मनो यथाऽनात्मा कश्चिदेवास्ति चाश्रयः ॥ २.६४ ॥
आत्मनोऽपि तु नानात्वे स्यादनात्माविशेषता ।
इति चेन्नैष भेदो हि विकारावाश्रयो भवेत् ॥ २.६५ ॥
यथा भवति देहस्य प्राण एवाश्रयः पुनः ।
प्राणस्य चाश्रयो देहस्तथात्माऽनात्मनोरपि ॥ २.६६ ॥
अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरपि ।
इति चेदुक्तमेवैतदात्मा हि स्वाश्रयो मतः ॥ २.६७ ॥
आश्रयाश्रयि वार्ता च व्यवहारे निगद्यते ।
परमार्थदशायां तु स्वस्मादन्यन्नविद्यते ॥ २.६८ ॥
आत्मनस्स्वगतो भेदो योस्मिन्नभ्युपगम्यते ।
स किं नित्योस्त्वनित्योवेत्येवं प्रश्ने तु कथ्यते ॥ २.६९ ॥
लब्धात्मसम्यग्बोधस्य तव यावदिहस्थितिः ।
तावत्स्याविनाशित्वात्नित्य एवेति निर्णयः ॥ २.७० ॥
पश्चादनित्यतायाश्च तव प्रस्फुरभावतः ।
स्वभेदानित्यवार्ताया नावकाशोऽत्र विद्यते ॥ २.७१ ॥
आत्मा स किं भवेद्द्रष्टा दृश्यो वा किन्नु दर्शनम् ।
द्रष्टृत्वे सति जीवत्वात्संसारित्वं प्रसज्यते ॥ २.७२ ॥
दृश्यत्वे तु घटादीनामिव स्याद्विषयात्मता ।
दर्शनत्वे तु वृत्तित्वाज्जाड्यमेव प्रसज्यते ॥ २.७३ ॥
अंससारी परात्माऽसौ स्वयं निर्विषयस्तथा ।
चैतन्यरूप इत्येतद्व्यर्थमेवेति चेच्छृणु ॥ २.७४ ॥
द्रष्टृत्वं तस्य विद्ध्येवं जीवेशादीक्षित्त्वतः । दृश्यत्वं च तथा विद्धि मुक्तैर्द्रष्टृत्वतस्स्वतः ॥ २.७५ ॥
दर्शनत्वं च साक्षित्वाद्दृग्रूपत्वाच्च तस्य वै । संसारित्यादयो दोषाः प्रसज्यन्ते न तत्र वै ॥ २.७६ ॥
असंसारिणमात्मानं संसार्यात्मा यदि स्वयं । पश्येत्तदाक्षिरोगी संप्रपश्येच्च निरंकुशं ॥ २.७७ ॥
असम्भवानी सर्वाणि सम्भवेयुश्च वैदिकाः । सिद्धान्तानियमापेतास्स्वेच्छाव्याहार सम्भवात् ॥ २.७८ ॥
इति चेन्नैव दोषोऽस्ति संसारस्यापवादतः । विशुद्धसत्त्वसंपन्नस्संसारी निर्मलो हि सः ॥ २.७९ ॥
यदि जीवस्य संसारस्स्वतस्सिद्धस्तथाऽखिलाः । उक्त दोषाः प्रसज्येरन्नज्ञानाद्यागतो न ते ॥ २.८० ॥
जीवस्य यदि संसारो ब्रह्मणस्तदभावतः । ब्रह्मत्वोपदेशोऽयमयुक्त इति चेच्छृणु ॥ २.८१ ॥
उक्तजीवैकदेशस्य ह्यसंसारित्वमन्वहं । ततस्तत्त्वोपदेशेऽस्मिन् निदाघास्त्वानवद्यता ॥ २.८२ ॥
तस्मात्सर्वगतं सत्यसुखबोधैकलक्षणं । ब्रह्मास्मीति विजानीहि केवलं त्वमसंशयं ॥ २.८३ ॥
मुख्यै ज्ञेयं च तद् ब्रह्म सच्चिदानन्दलक्षणं । नत्वलक्षणमन्यत्स्यादिति चोक्तं न विस्मर ॥ २.८४ ॥
॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे चतुर्थोऽध्यायः एवं श्री ऋभुगीता द्वितीयोऽध्यायः समाप्तः ॥
॥ तृतीयोऽध्यायः ॥
पुनर्ज्ञानं प्रवक्ष्यामि निदाघ शृणु सादरम् । ब्रह्मणोऽति दुरूहत्वादसकृच्छ्राव्यमेव तत् ॥ 3.01 ॥
सर्वं चिन्मयं विद्धि सर्वं सच्चिन्मयं ततं । सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययं ॥ 3.02 ॥
सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकं । सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खं ॥ 3.03 ॥
सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहं । मनोबुद्धिरहंकारचित्तसंघातका अमी ॥ 3.04 ॥
न त्वं नाहं नचान्यद्वा सर्वं ब्रह्मैव केवलं । न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ 3.05 ॥
न मध्यं नादि नान्तं वा न सत्यं न निबन्धनं । न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ 3.06 ॥
न देहं न मुखं घ्राणं न जिह्वा न च तालुनी । न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥ 3.07 ॥
न स्वेदमस्थिमांसं च न रक्तं न च मूत्रकं । न दूरं नान्तिकं नाहं नोदरं न किरीटकं ॥ 3.08 ॥
न हस्तपादचलनं न शास्त्रं न च शासनं । न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुषुप्तयः ॥ 3.09 ॥
तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततं । नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकं ॥ 3.10 ॥
न विश्वस्तैजसः प्राज्ञः विराट्सूत्रात्मकेश्वराः । न गमागमचेष्टा च न नष्टं न प्रयोजनं ॥ 3.11 ॥
त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यं मेध्यकं तथा । न पीनं न कृशं क्लेदं न कालं देशभाषणं ॥ 3.12 ॥
न सर्वं न भयं चैतन्न वृक्षतृणपर्वताः । न ध्यानं योगसंसिद्धिर्ब्रह्मक्षत्रवैश्यकं ॥ 3.13 ॥
न पक्षी न मृगो नागी न लोभो मोह एव च । न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ 3.14 ॥
न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् । न प्रौढहीननास्तिक्यं न वार्तावासरोऽस्ति हि ॥ ३.१५ ॥
न लौकिको न लोको वा न व्यापारो न मूढता । न भोक्ता भोजनं भोज्यं मातृमानं न मेयकम् ॥ ३.१६ ॥
न शत्रुमित्रपुत्रादि न माता न पिता स्वसा । न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ ३.१७ ॥
न शून्यं नापि चशून्यं नान्तःकरणसंस्मृतिः । न रात्रिर्नदिवा नक्तं न ब्रह्मो न हरिश्शिवः ॥ ३.१८ ॥
न वारपक्षमासादि वत्सरं न च चञ्चलं । न ब्रह्मलोको वैकुण्ठो न कैलासो न चन्यकः ॥ ३.१९ ॥
न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः । न यमो न यमलोको वा न लोका लोकपालकाः ॥ ३.२० ॥
न भूर्भुवस्स्वस्त्रैलोक्यं न पातालं न भूतलं । नाविद्या न च विद्या च न माया प्रकृतिर्न च ॥ ३.२१ ॥
न स्थिरं क्षणिकं नाशो न गतिर्न च धावनं । न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित् ॥ ३.२२ ॥
न पदार्थं न पूजार्हं नाभिषेकं न चार्चनं । न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकं ॥ ३.२३ ॥
न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि । न प्रार्थना पृथग्भावो न हविर्नास्ति वन्दनं ॥ ३.२४ ॥
न होमो न च कर्माणि न दुर्वाक्यं सुभाषणं । न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ ३.२५ ॥
न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः । न दुस्सहं दुरालापं न किरातो न कैतवं ॥ ३.२६ ॥
न पक्षपातं पक्षं वा न विभूषणतस्करो । न च डम्भो डाम्भिको वा न हीनो नाधिको नरः ॥ ३.२७ ॥
नैकं द्वयं त्रयं तुर्यं न महत्वं न चल्पता । न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥ ३.२८ ॥
न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता । न स्त्रीर्न योषिन्नो वृद्धा न कन्या न वितन्तुका ॥ ३.२९ ॥
न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः ।
न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ ३.३० ॥
एवं सलक्षणं ब्रह्म व्यतिरेकमुखेन वै ।
निदाघ त्वं विजानीहि ब्रह्मेतरनिषेधतः ॥ ३.३१ ॥
ब्रह्मणः प्रकृतस्यात्र द्विविधं प्रतिपादनम् ।
असन्निषेधरूपं सद्विधिरूपं च तत्र तु ॥ ३.३२ ॥
आत्मा निषेधरूपेण तुभ्यं सम्प्रतिपादितः ।
अथाद्य विधिरूपेण शृणु सम्प्रतिपाद्यते ॥ ३.३३ ॥
सर्वं चैतन्यमात्रत्वात्सर्वदोषस्सदा नहि ।
सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दरूपकम् ॥ ३.३४ ॥
ब्रह्मैव सर्वं नान्योऽस्मि तदहं तदहं तथा ।
तदेवाहम तदेवाहम ब्रह्मैवाहं सनातनम् ॥ ३.३५ ॥
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।
ब्रह्मैवाहं न मे सिद्धिर्ब्रह्मैवाहं न चेन्द्रियम् ॥ ३.३६ ॥
ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः ।
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः ॥ ३.३७ ॥
ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः ।
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम् ॥ ३.३८ ॥
इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः ।
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३.३९ ॥
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् ।
दोषो ब्रह्म गुणो ब्रह्म दिशश्शान्तर्विभुः प्रभुः ॥ ३.४० ॥
लोका ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः ।
पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३.४१ ॥
जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् ।
सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३.४२ ॥
स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन ।
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमव्ययम् ॥ ३.४३ ॥
नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।
अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ३.४४ ॥
अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् । अणुमात्रं मनश्चित्रमणुमात्रस्वहंकृतिः ॥ 3.45 ॥
अणुमात्रा च बुद्धिश्च ह्यणुमात्रोऽपि जीवकम् । अणुमात्रमिदं चित्तं सर्वमप्यणुमात्रकम् ॥ 3.46 ॥
ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् । आनन्दं परमानन्दमन्यत्किञ्चिन्नकिञ्चन ॥ 3.47 ॥
चैतन्यमात्रमोङ्कारं ब्रह्मैव भवति स्वयं । अहमेव जगत्सर्वमहमेव परं पदम् ॥ 3.48 ॥
अहमेव गुणातीतोऽह्यहमेव परात्परः । अहमेव परंब्रह्म ह्याहमेव गुरोर्गुरुः ॥ 3.49 ॥
अहमेवाखिलाधारोऽह्यहमेव सुखात्सुखम् । आत्मनोऽन्यज्जगन्नास्ति ह्यात्मनोऽन्यत्सुखं न च ॥ 3.50 ॥
आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् । आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं न हि ॥ 3.51 ॥
आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् । ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ 3.52 ॥
ब्रह्ममात्रमिदं सर्वं स्वयं ब्रह्मैव केवलम् । ब्रह्ममात्रं व्रतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ 3.53 ॥
ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयम् । ब्रह्मणोऽन्यतरं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥ 3.54 ॥
ब्रह्मणोऽन्यदहं नास्ति ब्रह्मणोऽन्यत्फलं नहि । ब्रह्मणोऽन्यत्पदं नास्ति ब्रह्मणोऽन्यत्पदं नहि ॥ 3.55 ॥
ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यदसद्वपुः । ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदं तेन हि क्वचित् ॥ 3.56 ॥
स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्नकिञ्चन । यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥ 3.57 ॥
यत्किञ्चिच्चिन्त्यते नित्यं यत्किञ्चिद्ध्नायते जनैः । यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ॥ 3.58 ॥
कर्मभेदं क्रियाभेदं गुणभेदं रसादिकम् । लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ॥ 3.59 ॥
कालभेदं देशभेदं वस्तुभेदं जयाजयम् ।
यद्यद्भेदं च तत्सर्वमसदेवहि केवलम् ॥ ३.६० ॥
असदन्तःकरणमसदेवेन्द्रियादिकम् ।
असत्प्राणादिकं सर्वं संघातमसदात्मकम् ॥ ३.६१ ॥
असत्यं पञ्चकोशाख्यमसत्याः पञ्चदेवताः ।
असत्यं षड्विकारादि ह्यसत्यमrivargakam -> ह्यसत्यमरिबर्गकम् ॥ ३.६२ ॥
असत्यष्षडृतुश्चैव ह्यसत्यष्षड्रसस्सदा ।
सप्तर्षयोप्यसत्यास्तेप्यसत्यास्सप्तसागराः ॥ ३.६३ ॥
सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।
आत्मैवाहं परंसत्यो नान्यास्संसारदृष्टयः ॥ ३.६४ ॥
सत्यमानन्दरूपोहं चिद्घनानन्दविग्रहः ।
अहमेव परानन्दोऽस्म्यहमेव परात्परः ॥ ३.६५ ॥
ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः ।
ज्ञानप्रकाशरूपोहं ज्ञानानन्दैकविग्रहः ॥ ३.६६ ॥
येन ज्ञातमिदं ज्ञानमज्ञानध्वान्तनाशकः ।
ज्ञानेनाज्ञाननाशेन स हि ज्ञानी समीर्यते ॥ ३.६७ ॥
ज्ञानं यथा द्विधा प्रोक्तं स्वरूपं व्यतिरित्यापि ।
अज्ञानं च तथा विद्धि मूलं च प्रतिबन्ध्यम् ॥ ३.६८ ॥
यथा ज्ञानं विना लोके किंचिदेव न सिद्ध्यति ।
तथा ज्ञानं विना लोके क्वचिन्मुक्तिर्न सिद्ध्यति ॥ ३.६९ ॥
ज्ञानद्वयं तथाऽज्ञानद्वयमप्यत्रवर्ण्यते ।
सर्वदा भान्ति जीवानं ज्ञानाज्ञानोक्तिदर्शनात् ॥ ३.७० ॥
ज्ञानस्य क्व तिरोभावो ज्ञानस्याविर्भावस्था ।
दृष्टस्सर्वत्र लोकेऽस्मिन् दुर्लभोहि विपर्ययः ॥ ३.७१ ॥
ज्ञानं सर्वान्तरं भाति कूटस्थात्मस्वरूपकम् ।
प्रज्ञामात्रमिदं सूक्तं कोऽपि जानाति पुण्यकृत् ॥ ३.७२ ॥
प्रज्ञायां कल्पितां प्रज्ञां प्रज्ञयैव विहाय यः ।
प्रज्ञामात्रेण सन्तिष्ठेत् स प्रज्ञावानितीर्यते ॥ ३.७३ ॥
बहिः प्रज्ञां सदोत्सृज्याभ्यन्तः प्रज्ञां च यो बुधः ।
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ३.७४ ॥
प्रज्ञैव यस्य नेत्रं स्यात् प्रज्ञैव श्रोत्रमिन्द्रियम् ।
अन्यच्च सर्वं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः ॥ ३.७५ ॥
प्रज्ञया जायते सर्वं प्रज्ञया पाल्यतेऽखिलम् ।
प्रज्ञया क्षीयते सर्वं तस्मात्प्रज्ञां समाश्रय ॥ ३.७६ ॥
प्रज्ञाहीनमसत्सर्वं प्रज्ञाहीनं जडं खलु ।
प्रज्ञाहीनं सदा दुःखं तस्मात्प्रज्ञां समाश्रय ॥ ३.७७ ॥
न विना प्रज्ञया पुण्यं न लोकः प्रज्ञया विना ।
विना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय ॥ ३.७८ ॥
सुसूक्ष्मया धिया प्रज्ञामिमां तां ज्ञप्तिसंज्ञिकाम् ।
ज्ञात्वा भवभवान्मुक्तो निर्गुणब्रह्मरूपिणीम् ॥ ३.७९ ॥
जाग्रदाद्यास्त्ववस्थासु या ज्ञप्तिर्निस्पृशं स्वयं ।
आभासतोप्यनुस्यूता ज्ञप्तिस्सा निर्मला स्वतः ॥ ३.८० ॥
ज्ञप्तिस्सा साक्षिणी नित्या तुर्या सर्वश्रुतीरिता ।
विषयज्ञप्तिसन्त्यागात् ज्ञायते विबुधैस्स्वतः ॥ ३.८१ ॥
ज्ञप्तिरेव परंब्रह्म ज्ञप्तिरेव परं पदम् ।
ज्ञप्तिरेव परो मोक्षो ज्ञप्तिरेव परं सुखम् ॥ ३.८२ ॥
ज्ञप्तिरेव पराचार्यो ज्ञप्तिरेव परामृतम् ।
ज्ञप्तिरेव परात्पूर्तिर्ज्ञप्तिरेव परागतिः ॥ ३.८३ ॥
तस्मात् ज्ञप्तिं समाश्रित्य विज्ञप्तिधिषणां त्यज ।
अज्ञप्तेर्दुःखहेतुत्वात्सुखार्थीज्ञप्तिमाश्रय ॥ ३.८४ ॥
अज्ञप्तिगोचरो जीवः कूटस्थो ज्ञप्तिगोचरः ।
हेयोपादेयता सिद्धा धर्मधर्मित्वतस्तयोः ॥ ३.८५ ॥
अहम्प्रत्ययशब्दाभ्यां विज्ञेयो जीवसंज्ञकः ।
अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसंज्ञकः ॥ ३.८६ ॥
यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः ।
त्वमहं शब्दयोरैक्यातात्साक्षी प्रत्यगाह्वयः ॥ ३.८७ ॥
अस्मत्प्रत्ययिनं साक्षि चैतन्यात्मकमद्वयम् ।
कूटस्थं प्रत्यगात्मानं साक्षाद्विषयिणं परम् ॥ ३.८८ ॥
जहि ज्ञात्वा तदन्यं त्वमहम्प्रत्ययिनं बहिः ।
साक्ष्यं जीवं चिदाभासं पराञ्चं विषयं स्वतः ॥ ३.८९ ॥