भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 234, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 234

व्याप्यस्यैव हि जीवस्य विकारापेक्षया तथा ।
व्यापकापेक्षया च स्यात् स्थितिर्न व्यापकस्यतु ॥ २.६० ॥

विकारालम्बनाभावात्स्यालम्बनतयापि च ।
सर्वालम्बनता सिद्धा न स्वहोनेश्च संगतिः ॥ २.६१ ॥

सर्वाधारस्य नाधारोऽपेक्ष्यतेपि क्वचिद्विभोः ।
स चेदाधारसापेक्षो न सर्वाधारतां व्रजेत् ॥ २.६२ ॥

सर्वाधारस्य च व्योम्नो यथात्माधार इष्यते ।
तथात्मनोऽपि कश्चित्स्यादिति चेद्बाधमुच्यते ॥ २.६३ ॥

आत्मैवात्मन आधार आत्मन्येवात्मनःस्थितिः ।
अनात्मनो यथाऽनात्मा कश्चिदेवास्ति चाश्रयः ॥ २.६४ ॥

आत्मनोऽपि तु नानात्वे स्यादनात्माविशेषता ।
इति चेन्नैष भेदो हि विकारावाश्रयो भवेत् ॥ २.६५ ॥

यथा भवति देहस्य प्राण एवाश्रयः पुनः ।
प्राणस्य चाश्रयो देहस्तथात्माऽनात्मनोरपि ॥ २.६६ ॥

अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरपि ।
इति चेदुक्तमेवैतदात्मा हि स्वाश्रयो मतः ॥ २.६७ ॥

आश्रयाश्रयि वार्ता च व्यवहारे निगद्यते ।
परमार्थदशायां तु स्वस्मादन्यन्नविद्यते ॥ २.६८ ॥

आत्मनस्स्वगतो भेदो योस्मिन्नभ्युपगम्यते ।
स किं नित्योस्त्वनित्योवेत्येवं प्रश्ने तु कथ्यते ॥ २.६९ ॥

लब्धात्मसम्यग्बोधस्य तव यावदिहस्थितिः ।
तावत्स्याविनाशित्वात्नित्य एवेति निर्णयः ॥ २.७० ॥

पश्चादनित्यतायाश्च तव प्रस्फुरभावतः ।
स्वभेदानित्यवार्ताया नावकाशोऽत्र विद्यते ॥ २.७१ ॥

आत्मा स किं भवेद्द्रष्टा दृश्यो वा किन्नु दर्शनम् ।
द्रष्टृत्वे सति जीवत्वात्संसारित्वं प्रसज्यते ॥ २.७२ ॥

दृश्यत्वे तु घटादीनामिव स्याद्विषयात्मता ।
दर्शनत्वे तु वृत्तित्वाज्जाड्यमेव प्रसज्यते ॥ २.७३ ॥

अंससारी परात्माऽसौ स्वयं निर्विषयस्तथा ।
चैतन्यरूप इत्येतद्व्यर्थमेवेति चेच्छृणु ॥ २.७४ ॥