ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 235, कुल 249 में से
संदर्भ में पढ़ेंद्रष्टृत्वं तस्य विद्ध्येवं जीवेशादीक्षित्त्वतः । दृश्यत्वं च तथा विद्धि मुक्तैर्द्रष्टृत्वतस्स्वतः ॥ २.७५ ॥
दर्शनत्वं च साक्षित्वाद्दृग्रूपत्वाच्च तस्य वै । संसारित्यादयो दोषाः प्रसज्यन्ते न तत्र वै ॥ २.७६ ॥
असंसारिणमात्मानं संसार्यात्मा यदि स्वयं । पश्येत्तदाक्षिरोगी संप्रपश्येच्च निरंकुशं ॥ २.७७ ॥
असम्भवानी सर्वाणि सम्भवेयुश्च वैदिकाः । सिद्धान्तानियमापेतास्स्वेच्छाव्याहार सम्भवात् ॥ २.७८ ॥
इति चेन्नैव दोषोऽस्ति संसारस्यापवादतः । विशुद्धसत्त्वसंपन्नस्संसारी निर्मलो हि सः ॥ २.७९ ॥
यदि जीवस्य संसारस्स्वतस्सिद्धस्तथाऽखिलाः । उक्त दोषाः प्रसज्येरन्नज्ञानाद्यागतो न ते ॥ २.८० ॥
जीवस्य यदि संसारो ब्रह्मणस्तदभावतः । ब्रह्मत्वोपदेशोऽयमयुक्त इति चेच्छृणु ॥ २.८१ ॥
उक्तजीवैकदेशस्य ह्यसंसारित्वमन्वहं । ततस्तत्त्वोपदेशेऽस्मिन् निदाघास्त्वानवद्यता ॥ २.८२ ॥
तस्मात्सर्वगतं सत्यसुखबोधैकलक्षणं । ब्रह्मास्मीति विजानीहि केवलं त्वमसंशयं ॥ २.८३ ॥
मुख्यै ज्ञेयं च तद् ब्रह्म सच्चिदानन्दलक्षणं । नत्वलक्षणमन्यत्स्यादिति चोक्तं न विस्मर ॥ २.८४ ॥
॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे चतुर्थोऽध्यायः एवं श्री ऋभुगीता द्वितीयोऽध्यायः समाप्तः ॥