भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 233, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 233

मनसा संस्कृतं सर्वं मनसैव च विस्कृतम् ।
मनसा भावितं सर्वं मनसैव ह्यभावितम् ॥ २.४५ ॥

मनसा दूषितं सर्वं मनसैव च भूषितम् ।
मनसा सुखवृत्तिस्स्यान्मनसा दुःखसंचयः ॥ २.४६ ॥

तस्मात्सर्वनिदानं तन्मनस्सूक्ष्मं परात्मनि ।
त्वयि सच्चित्सुखाम्बोधौ कल्पितं विद्धि मायया ॥ २.४७ ॥

त्वदन्यस्य च सर्वस्य कल्पितत्वादबोधतः ।
त्वमेव सर्वसाक्षी सन् स्वयं भासि निरन्तरम् ॥ २.४८ ॥

तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गतिः ।
मन्दबुद्ध्या गतौ सत्यामपि नाशस्स्वयं भवेत् ॥ २.४९ ॥

नित्यबोधस्वरूपस्य ह्यबोधप्रतियोगिकः ।
त्वयि तत्सन्निवर्तेत तमस्सूर्योदये यथा ॥ २.५० ॥

ज्ञातृज्ञानप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्वयि ।
तस्याखण्डस्वरूपत्वात् सर्वाधिष्ठानतोचिता ॥ २.५१ ॥

मुमुक्षुभिश्च विज्ञेयास्स्वधर्मास्सच्चिदादयः ।
सन्मयश्चिन्मयश्चेत्या तथानन्दमयो यतः ॥ २.५२ ॥

चिद्रूपस्य तवात्मत्वादनात्मान्यश्चिन्मयाः ।
अनात्मनां विकारित्वान्निर्विकारस्त्वमिष्यसे ॥ २.५३ ॥

विकारस्य समस्तस्याप्यविद्याकल्पितत्वतः ।
विलये निर्विकारस्त्वं विद्यावानवशिष्यसे ॥ २.५४ ॥

बृहद् ब्रह्मावशेषो हि नाशः कल्पितवस्तुनः ।
यच्छेषास्स्युरिमे सर्वे स शेषी नित्यतां व्रजेत् ॥ २.५५ ॥

शेषस्य शेष्यनन्यत्वं वास्तवं सर्वसम्मतम् ।
शेषिणस्तु त्वानन्यत्वान्न शेषस्यास्ति नित्यता ॥ २.५६ ॥

शेषिणश्शेषापेक्ष्यान्न स्वातन्त्र्येण शेषिता ।
इति वक्तुं न शक्यं हि स्वमहिम्नि स्थितत्वतः ॥ २.५७ ॥

स्वस्यैव महिमा सर्वव्यापकत्वादिलक्षणः ।
सर्वज्ञत्वादि संसिद्धः काभ्यूह्येत युक्तिभिः ॥ २.५८ ॥

व्याप्यानापेक्षता तस्य व्यापकस्येतिचेच्छृणु ।
व्याप्यानपेक्षं सिद्धिर्हि व्यापकस्य निजाश्रयात् ॥ २.५९ ॥