ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 232, कुल 249 में से
संदर्भ में पढ़ेंदेहोऽहमिति संकल्पस्त्वत्यजीवस्य एव च ।
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ २.३० ॥
देहोऽहमिति संकल्पो महापापमिति स्फुटम् ।
देहोऽहमिति या बुद्धिस्स्याद्दोषाऽऽमयः किल ॥ २.३१ ॥
यत्किंचिदपि संकल्पस्तापत्रयमितीरितम् ।
तच्च सर्वं मनुष्याणां मानसं हि निगद्यते ॥ २.३२ ॥
कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् ।
यत्किंचेदं सर्वसंकल्पजातं तत्किंचेदं मानसं सोम्य विद्धि ॥ २.३३ ॥
मन एव जगत्सर्वं मन एव महारिपुः ।
मन एव हि संसारो मन एव जगत्त्रयम् ॥ २.३४ ॥
मन एव महद्दुःखं मन एव जरादिकम् ।
मन एव हि कालश्च मन एव मलं तथा ॥ २.३५ ॥
मन एव हि संकल्पो मन एव च जीवकः ।
मन एव हि चित्तं च मनोऽहंकार एव च ॥ २.३६ ॥
मन एव महान् बन्धो मनोऽन्तःकरणं च तत् ।
मन एव हि भूमिश्च मन एव हि तज्जलं ॥ २.३७ ॥
मन एव हि तेजश्च मन एव मरुन्महान् ।
मन एव हि चाकाशो मन एव हि शब्दकः ॥ २.३८ ॥
स्पर्शरूपरसा गन्धः कोशाः पंच मनोभवाः ।
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् ॥ २.३९ ॥
दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः ।
दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ २.४० ॥
संकल्पमेव यत्किंचित्तत्तन्नास्तीति निश्चनु ।
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहि ॥ २.४१ ॥
व्यवहारदशायां हि गुरुशिष्यादिकं भवेत् ।
परमार्थदशायां तत् कथं मुक्तौ प्रसिध्यति ॥ २.४२ ॥
मुक्त्यतीत दशायां च प्रोच्यते परमार्थता ।
तथाप्यसत्यहंत्वत्वान्मुक्तेरेवास्ति मुख्ययाः ॥ २.४३ ॥
मनसा कल्पितं सर्वं मनसा परिपालितम् ।
मनसा संस्कृतं तस्मान्नन एवास्ति कारणम् ॥ २.४४ ॥