भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 231, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 231

सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि ।
नित्यसिद्धस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ २.१५ ॥

ईषणात्रयविशून्योऽसि ह्यणुमात्रविवर्जितः ।
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ २.१६ ॥

लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः ।
सर्वनादान्तरोऽसि त्वं कलाकाष्ठादिवर्जितः ॥ २.१७ ॥

ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ २.१८ ॥

स्वात्मराज्ये स्वमेवासि स्वयम्भावविवर्जितः ।
शिष्टपूर्णस्वरूपोऽसि स्वस्यात्किञ्चिन्नपश्यसि ॥ २.१९ ॥

स्वस्वरूपान्नचलसि स्वस्वरूपेण जृम्भसि ।
स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु ॥ २.२० ॥

इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ २.२१ ॥

लक्ष्यलक्षणहीनत्वाद्युक्त्या निष्प्रतियोगिकम् ।
न मन्तव्यं यथायोग्यं लौकिकैस्त्वं विनिश्चिनु ॥ २.२२ ॥

निर्गुणं निर्मलं शान्तं ब्रह्मसप्रतियोगिकम् ।
शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु ॥ २.२३ ॥

आत्मस्त्वं सच्चिदानन्दलक्षैरक्षमद्वयम् ।
ब्रह्मैवास्मि न देहोऽयमिति चित्तेऽवधारय ॥ २.२४ ॥

देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् ।
देहोऽहमिति सङ्कल्पो महान् संसार उच्यते ॥ २.२५ ॥

देहोऽहमिति सङ्कल्पस्तद्बन्ध इति चोच्यते ।
देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते ॥ २.२६ ॥

देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् ।
देहोऽहमिति सङ्कल्पो जगत्सर्वं समीर्यते ॥ २.२७ ॥

देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः ।
देहोऽहमिति यज्ज्ञानं तदसज्ज्ञानमेव च ॥ २.२८ ॥

देहोऽहमिति यद्बुद्धिः सा चाविद्येति भण्यते ।
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ २.२९ ॥