भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 241, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 241

प्रज्ञैव यस्य नेत्रं स्यात् प्रज्ञैव श्रोत्रमिन्द्रियम् ।
अन्यच्च सर्वं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः ॥ ३.७५ ॥

प्रज्ञया जायते सर्वं प्रज्ञया पाल्यतेऽखिलम् ।
प्रज्ञया क्षीयते सर्वं तस्मात्प्रज्ञां समाश्रय ॥ ३.७६ ॥

प्रज्ञाहीनमसत्सर्वं प्रज्ञाहीनं जडं खलु ।
प्रज्ञाहीनं सदा दुःखं तस्मात्प्रज्ञां समाश्रय ॥ ३.७७ ॥

न विना प्रज्ञया पुण्यं न लोकः प्रज्ञया विना ।
विना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय ॥ ३.७८ ॥

सुसूक्ष्मया धिया प्रज्ञामिमां तां ज्ञप्तिसंज्ञिकाम् ।
ज्ञात्वा भवभवान्मुक्तो निर्गुणब्रह्मरूपिणीम् ॥ ३.७९ ॥

जाग्रदाद्यास्त्ववस्थासु या ज्ञप्तिर्निस्पृशं स्वयं ।
आभासतोप्यनुस्यूता ज्ञप्तिस्सा निर्मला स्वतः ॥ ३.८० ॥

ज्ञप्तिस्सा साक्षिणी नित्या तुर्या सर्वश्रुतीरिता ।
विषयज्ञप्तिसन्त्यागात् ज्ञायते विबुधैस्स्वतः ॥ ३.८१ ॥

ज्ञप्तिरेव परंब्रह्म ज्ञप्तिरेव परं पदम् ।
ज्ञप्तिरेव परो मोक्षो ज्ञप्तिरेव परं सुखम् ॥ ३.८२ ॥

ज्ञप्तिरेव पराचार्यो ज्ञप्तिरेव परामृतम् ।
ज्ञप्तिरेव परात्पूर्तिर्ज्ञप्तिरेव परागतिः ॥ ३.८३ ॥

तस्मात् ज्ञप्तिं समाश्रित्य विज्ञप्तिधिषणां त्यज ।
अज्ञप्तेर्दुःखहेतुत्वात्सुखार्थीज्ञप्तिमाश्रय ॥ ३.८४ ॥

अज्ञप्तिगोचरो जीवः कूटस्थो ज्ञप्तिगोचरः ।
हेयोपादेयता सिद्धा धर्मधर्मित्वतस्तयोः ॥ ३.८५ ॥

अहम्प्रत्ययशब्दाभ्यां विज्ञेयो जीवसंज्ञकः ।
अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसंज्ञकः ॥ ३.८६ ॥

यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः ।
त्वमहं शब्दयोरैक्यातात्साक्षी प्रत्यगाह्वयः ॥ ३.८७ ॥

अस्मत्प्रत्ययिनं साक्षि चैतन्यात्मकमद्वयम् ।
कूटस्थं प्रत्यगात्मानं साक्षाद्विषयिणं परम् ॥ ३.८८ ॥

जहि ज्ञात्वा तदन्यं त्वमहम्प्रत्ययिनं बहिः ।
साक्ष्यं जीवं चिदाभासं पराञ्चं विषयं स्वतः ॥ ३.८९ ॥